________________
( ६८ )
जैनस्तोत्र सन्दोहे
पञ्चमैरवतस्तवः ॥ ५॥
अतीतजिना:
--
सुसम्भवं श्रियः फल्गुं श्रीश्रीपूर्वकनामकम् । सौन्दर्यगैौरिकाभिख्यं तथा चैव त्रिविक्रमम् ॥ १ ॥ नारसिंहं मृगवसुं सोमेश्वर - सुभातकौ । विमल- विबोधनामानौ तथा सङ्गमकं स्तुवे ॥ २॥ मान्धातक - सुतेजस्कौ विद्याधर- सुलोचनौ । मानाधिक- पुण्डरीकौ नौमि चित्राङ्गनामकम् ॥ ३ ॥ माणिभद्रं सर्वकालं भूरिश्रवसमाश्रये ।
पुण्याङ्गमिति चातीतास्तीर्थनाथाः पुनन्तु नः ॥ ४ ॥
वर्त्तमानजिना:
Jain Education International
[ श्रीदेवेन्द्रसूरि
गाङ्गेयं बलभद्रं च भीमकं च ध्वजासिकम् । सुभद्रं स्वामिनं चान्ते धारये हतिकायम् ॥ ५ ॥ नन्दिघोषं जगन्नाथं वज्राख्यं वज्रनाभिकम् । सन्तोषस्वामिनं सेवे सुधर्माणं तथैव च ॥ ६ ॥ फणादिं वीरचन्द्रं चाऽमोघनाथं स्तवीम्यहम् । स्वच्छं चाकोपकाऽकामौ तथा सन्तोषकाह्वयम् ॥ ७ ॥ शत्रुसेनं चक्षुष्मन्तं दयानाथं च कीर्त्तये । शुभं नौमीत्यमी वर्त्तमानाश्छिन्दन्त्वधं जिनाः ॥ ८ ॥
For Personal & Private Use Only
www.jainelibrary.org