________________
विनिर्मितानि त्रिंशञ्चतुर्विशतिकास्तवनानि (६९) भाविजिना:
अदोषितं वृषस्वामि-विनयानन्दसञ्ज्ञकौ । मुनिनाथेन्द्रको चन्द्रबाहुं ध्यायामि सादरम् ॥ ९ ॥ दिलादित्यं वसुबोधकं मूर्तिकं धर्मबोधकम् । देवाङ्ग-मरीचिकाढावभिनौमि सुजीवनम् ॥ १० ॥ यशोधरं गौतमं च मुनिशुद्धं प्रबोधकम् । शतानीकं च चरितनाथं स्मृतिपथं नये ॥ ११ ॥ कृतार्थकं वदेों (?)-सुधामानं स्मराम्यहम् । ज्योतिर्मुखं सूर्यकं चेत्यमी भाविजिना मुदे ॥ १२ ॥ इतीषुसङ्ख्यैरवतेऽतीताया जिनपुङ्गवाः । संस्तुता अद्भुतां दद्युः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥ हेमचन्द्राभ्यर्थनया श्रीमद्देवेन्द्रसूरिणा । त्रिंशच्चतुर्विंशतिकास्तवाः दश विनिर्मिताः ॥ १ ॥ मथुरानगरीस्तूपे पट्टतः पूर्वसूरिभिः ।
- लिपीकर्मीकृता एते सम्प्रदायोऽयमेव हि ॥२॥ ... ॥ इति त्रिंशचतुर्विशतिकास्तवनानि सम्पूर्णानि ।
-actrentसकलसुविहितसूरिसमाजराज - श्रीतपागच्छाधिराज – भट्टारकप्रभुश्रीविजयदेवसूरीश्वरसाम्राज्ये विजयिनि महोपाध्यायश्रीशान्ति
चन्द्रगणिचरणारविन्दचञ्चरीकसमानपण्डितअमरचन्द्रगणिना .. लिखिलानि । संवत् वसु-निधि-शरभूवदन-सुधाकर" मिते (१६९८) वर्षे मार्गशीर्षासिततृतीयायां दक्षिण
देशे श्रीबियापुरसमीपवर्तिश्रीस्याहपुरे ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org