________________
amwwwimwww.arwwwwwm
जैनस्तोत्रसन्दोहे [श्रीदेवेन्द्रसूरिभाविजिनाः
रवीन्दुमभिवन्देऽहं तथा च कुसुमालिकम् । पृथ्वीमन्तं कुलपुरोधिकं धमाभिधानकम् ॥९॥ विसोमं वरुणाभिख्याभिनन्दौ सर्वभावुकम् । सुदृष्टं मौष्टिकं भक्त्या सौपार्णिकमथाश्रये ॥ १० ॥ सोमचन्द्र क्षत्राधिपं जिनेन्द्रं चक्रमेधिनम् । तमोरिपुं स्तुवे देवं निर्मितं कृपपार्श्वकम् ॥ ११ ॥ बहुनन्दाऽधोरिकाख्यौ दृष्टस्वामिविकुञ्चिकौ । श्रये वत्सेशमित्येते जिनाः सौख्याय भाविनः ॥ १२ ॥ इत्थं तृतीयैरवतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्युः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥
चतुर्थैरवतस्तवः॥४॥
Twidel-..
अतीतजिनाः
कृतान्ताऽम्बरिको देवादित्यमष्टाहिकाभिधम् । चन्द्रनाथं वणिगाख्यं त्रिभानुमभिनौम्यहम् ॥ १ ॥ भजे ब्रह्मादि-वज्राङ्गौ तिरोहितमपापकम् । लोकोत्तरं लिङ्गधरं विद्योतिकं सुमेरुकम् ॥ २॥ सुभाषितं वत्सलाख्यं जिनेन्द्रं च तुषारकम् । भुवनस्वामिन सेवेतरां चैव सुकालकम् ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org