________________
( ४८ )
जैनस्तोत्र सन्दोहे
मग्ना नाथ ! भवार्णवे वयमितस्तत् तारयास्मान् शुभैष्टोऽस्माभिरसि त्वमीश ! वितरास्मभ्यं मनोवाञ्छितम् । अस्मन्नाशय पातकं मुनिपते ! ऽस्माकं त्वमेवोशताsस्मासु ज्ञानमुदीरय त्वदपरः को न स्मृतेर्गोचरः ? ॥७॥ अवचूरिः
I
लक्षणौ ? स्थितौ । कुन ? यत्र । आवाभ्यां स्मरस्य सखिता अभवत् । अभवत् इति क्रियापदम् । का कर्त्री ? सखिता । कस्य ? स्मरस्य । काभ्याम् ? आवाभ्याम् । अस्मदस्तृतीयाद्विवचने भ्यामि आवादेशे दस्याssवे सिद्धम् । - पुनः । आवाभ्यां कामान्तकः क्रुद्धोऽस्ति । अस्तीति क्रियापदम् । कः कर्त्ता ? कामान्तकः किंलक्षण: ? क्रुद्धः । काभ्याम् ? आवाभ्याम् । कामस्य अन्तकः कामान्तकः । च-पुनः | आवाभ्यां । अद्य पुण्यं परिच्युतम् । परि च्युतामति क्रियापदम् । किं कर्तृ ? पुण्यम् । काभ्याम् ? आवाभ्याम् । कदा ? अद्य । तृतीया - चतुर्थी - पञ्चमी द्विवचने समानं रूपम् । सर्वत्राऽऽवाभ्याम् इति ज्ञयम् । त इति खेदे | आवयोः बलं क्षीणम् । क्षीणम् इति क्रियापदम् । आवयोः न धोरस्ति । अस्तीति क्रियापदम् । का कत्रो ? धोः । कथम् ? न । हे विभो ! इति सञ्चिन्त्य इमौ रागद्वेषौ त्वत्तः अरम् अत्यथम । प्रणेशतुः - नष्टौ । प्रणेशतुः इति क्रियापदम् । कौ कर्तारौ ? रागद्वेषौ । किंलक्षणौ ? इमौ । सिद्धिः पूर्ववत् । कथम् ? अरम् । किं कृत्वा ? सञ्चिन्त्य । कथम् ? इति ।
[ श्रीसोमप्रभा
'मग्ना नाथ०' हे नाथ ! वयं भवार्णवे मग्नाः । मग्ना इति क्रियापदम् । क कर्तारः ? वयम् । कस्मिन् ? भवार्णवे । भव एव अर्णवः भवार्णवः ' अमा त्वामा ' ( सिद्ध० २ - १ - २४ ) इति त्वादेशः पदात् परः । अत्रापि 'अमा त्वामा' (सि० २ - १ - २४ ) इति माऽऽदेशः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org