________________
विनिर्मितम् ]
नमस्कारस्तवनम्
एवं पावितमां स्तुवेऽनवरतं त्वाऽहं नतत्वं प्रभो ! रक्ताऽहं त्वमपीश ! पाहि भवतो मा संस्तुत ! त्वां जवात् ।
भद्रं ते स्मृतमह्यमुद्रतभव ! त्रैलोक्यनीलोत्पल ! श्रीसोमप्रभसूरि संस्तुतगुण ! श्रेयः श्रियं देहि मे ॥ ८ ॥
[१९] नमस्कारस्तवनम् ।
अरिहंताण नमो पूअं अरहंताणं रहस्सरहियाणं पयओ पर मिट्ठीणं अरुहंताणं धुअरयाणं ॥ १ ॥ निदड़ अटुकम्मिंधणाण वरनाणदंसणधराणं । मुत्ताण नमो सिद्धाणं परमं परमिभूियाणं ॥२॥
Jain Education International
,
तस्मिन् भवार्णवे । तत् तस्मात् कारणात् । इतः भवार्णवात् त्वं अस्मान् तारय । तारय इति क्रियापदम् । कः कर्ता ? त्वम् | कान् कर्मतापन्नान् ? अस्मान् । ' पूर्वं युष्मान् अव अस्मान ' इति सिद्धम् । कथम् ? तत् । कुत: ? इतः भवार्णवात् । हे ईश ! शुभेः त्वं दृष्टोऽसि । अस्मभ्यं त्वं मनोवाञ्छितं वितर । हे मुनिपते ! अस्मत् पातकं त्वं नाशय । हे मुनिपते ! अस्माकं त्वमेव ईशिता वर्त्तसे । अस्मासु ज्ञानमुदीरय । उदीरय इति क्रियापदम् । कः कर्ता ? त्वम् । किं कर्मतापन्नम् ? ज्ञानम् । केषु ? अस्मासु । नः अस्माकम् त्वत् अपरः स्मृतेर्गोचरः कोऽस्ति ? अपि तु न कोऽपि । किंलक्षणः ? अपरः । कस्मात् ? त्वत् । पुनः किंलक्षणः ? गोचरः । कस्याः? स्मृतेः । केषाम् ? न:- अश्माकम् । सर्वत्र पूर्वं युष्मच्छब्दरूपवत् सर्वविभक्तिः बहुवचनेषु अस्मदो रूपं ज्ञेयम् । गोचरभयान साधनिका कृता इति ॥ ७ ॥
( ४९ )
For Personal & Private Use Only
www.jainelibrary.org