SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ चार्यविनिर्मितम्] साधारणजिनस्तवनम् (४५) युवां जिनं पश्यतमक्षिणी ! हे नैर्मल्यमयूं श्रयते यथा वाम् । प्राप्तं फलं स्वस्ति गतं युवाभ्यां पापं च पुण्यं युवयोश्च तेजः ॥३॥ यूयं नश्यत रे कषायरिपवः ! युष्मान् जिनः प्रेक्षते युष्माभिर्मथितं जगन्मुनिपतिः क्रुद्धोऽस्ति युष्मभ्यमाः । भाग्यं युष्मदपासरन्ननु बलं युष्माकमद्य क्षितं किं युष्मासु न चेतनाऽस्ति यदियत्यद्यापि वो धृष्टता? ॥४॥ अवचूरिः । सन्ति। सन्तीति क्रियापदम् । के कर्तारः ? अनन्तगुणाः । कस्मिन् ? त्वयि ॥ २ ॥ ___ 'युवाम् ' हे अक्षिणी ! युवा जिनं पश्यतम् । पश्यतं इति क्रियापदम् । के कर्तृणी ? युवाम् । के कर्मतापन्नम् ? जिनम् । यथा वां अग्यू नैर्मल्यं श्रयते । श्रयते इति क्रियापदम् । किं कर्म ? नैर्मल्यम् । किम्भूतम् ? अग्यम् । के ? युवाम् । कथम् ? यथा युष्मदो द्वितीया द्विवचनेन सह वाम् इत्यादेशः । निर्मलस्य भावो नैर्मल्यम् । भावे ये, वृद्धौ सिद्धिः । युवाभ्यां फलं प्राप्तम् । युवाभ्यां स्वस्ति गतं अस्तु । च-पुनः युवाभ्यां पापं गतम् । तृतीया-चतुर्थी - अ ग्यम्-प्रधानम् । २ 'श्रिग सेवायाम् ' फलवकर्तरि ' इगितः ' ( सिद्ध० ३-३-९५ ) आत्मनेपदम् । ३ 'द्वित्वे वां नौ' ( सिद्ध० २-१-२२ ) इति वाम् आदेशः । ४ युवाभ्यांसम्प्रदानभूताभ्याम् । युवयोः सम्बन्धि पुण्यं युवयोर्विषयभूतयोस्तेजश्च । समस्तीति क्रियापदं स्वयमेवाध्याहार्यम् । 'यत्राऽन्यत् क्रियापद न श्रूयते तत्राऽस्तीति भवति परः प्रयुज्यते इति न्यायबलात्॥ इति युष्मदः सप्तविभक्त्यकविंशतिबचनप्रयोगरूपोदाहरणामि ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy