SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ साधारण जिन स्तवनम् यस्ते सुप्तोत्थितः पश्येत् पादपद्मं सुदारुणम् । न पुनर्लभते नाथ ! भवे दुःखं स दारुणम् ॥७॥ निःशेषमङ्गलागारे प्रगेऽधी यो न नाथ ! ते । वीक्षते स कथं मूढो मोक्षसौख्यस्य नाथते ? ॥ ८ ॥ प्रभा ते पादयोः स्पृष्टा प्रभाते शिरसा प्रभो ! | विभवं वितनोत्याशु विभवं च पदं नृणाम् ॥ ९॥ प्रभो ! त्वत्पादयोर्नित्यमरुणामरुणोदये । स्पृशन्न स्पृश्यते नाथ ! पातकैर्भवपातकैः ॥ १० ॥ त्वत्पादनख चन्द्राणां ज्योत्स्नया स्नपिता विभो ! | प्रणन्तारः प्रगे भान्ति मूर्त्तपुण्योज्ज्वला इव ॥ ११ ॥ किं गुणैः किं कुलेनापि किं रूपेण किमाज्ञया ? | किं विभो ! विभवेनापि न चेन्नित्यं त्वमीक्ष्यसे ॥ १२॥ एतत्प्रभातकुलकं पुलकं दधानो हरिप्रणीतम् Jain Education International यस्तै निशान्तमुपगम्य निशान्त एव । स्वामिन् ! पठेत् त्रिदिववासमुपास्य पश्चाचन्द्रप्रभामलमुपैति पदं स मुक्तेः ॥१३॥ [ १८ ] श्री सोमप्रभसूरिविरचितं साधारणजिनस्तवनम् । श्रीमन् ! धर्मं श्रेय मम मनः सन्मतेऽम्ब ! प्रसीद श्रद्धे ! श्रेयोजलभरनदि ! प्रोल्लस त्वं प्रकामम् । ( ४३ ) For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy