SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ (४२) जैनस्तोत्रसन्दोहे [श्रीचन्द्रप्रभगच्छाधिपश्रीजयकीर्तिसूरिशिष्यो महीमेरुरहं स्तवं ते । कृत्वा क्रियागुप्तकवित्वमित्थं त्वामेव दध्यां हृदये जिनेन्द्र ! ॥५३॥ . [१७] श्रीचन्द्रप्रभरिप्रणीत साधारणजिनस्तवनम् । (प्रभातकुलकापराख्यम् ) प्रातरेव समुत्थाय तीर्थनाथ ! मुखं तव । ये पश्यन्ति प्रणश्यन्ति तेषां नियतमापदः ॥१॥ जिनेन्द्र ! त्वन्मुखाम्भोजं प्रातः पश्यन्ति ये नराः । सार्द्ध सर्वज्ञकल्याणैर्नित्यं त्यजति तान्न राः ॥२॥ भावतो भवतो दृष्टं मुखं दिनमुखे न यैः । मर्त्यजन्मफलं नाथ ! नाशितं नाशितं हि तैः ॥३॥ प्रभो ! प्रभोदयेऽवश्यं पश्यन्नास्यं तवान्वहम् । नरो न रोगदारिद्रोपद्रवैर्देव ! दूयते ॥४॥ नेदं पुण्यमपुण्यानां प्रभो ! प्रातः प्रयाति ते । मुखं मुखमभीष्टानां सुदृष्टेदृष्टिगोचरम् ॥५॥ दृष्ट्वा ते वीतरागास्य कान्तोपान्तं मनोहरम् । कथमभ्येति भव्यानां कान्तोपान्तं मनो हरम् ? ॥६॥ १ कान्ता उपान्ते यस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy