SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ( ३८ ) जैनस्तोत्रसन्दोहे [श्रीमहीमेह दुःसहसुरनरतिर्यक्कृतोपसर्गावली त्वया त्रेधा । विश्वे क्षमीश ! सम्यक् सिद्धिसुखास्वादरसिकेण ॥ १७ ॥ दुर्जनजनेन लपितं दुर्वचनं श्रवणशूलसदृशमपि । भवता सुरपतिविहितस्तुतितुल्यममानिमुनिमुख्य ! ॥ १८ ॥ भव्यजननयनकैरववने विकाशं सदा ददानेन । चन्द्रोपमितिर्भवतासितेन युक्तं जगन्नाथः ॥ १९ ॥ विषयमतिविषमरजनीविनाशमनिशं वितन्वता भवता । रवितोऽधिकेन लोके भावि ख्यातिप्रतापेन ॥ २० ॥ भव्यविभारोचिष्णुनिराकरिष्णुर्भवं भयोपेतम् । एकस्त्वमेव संवरमिन्द्रियजयसम्भवं सत्यम् ॥ २१ ॥ चित्रं विशददयास्थः क्षमावतां मुख्यतां सदैव दधत् । सकलं भावारिकुलं नाथ ! त्वं त्रिभुवने विदितः ॥ २२ ॥ अमृतरसादपि समधिकरसं विशेषादशेषशान्तरसम् । नक्तं दिवापि चित्रं त्वं न सदा सावधान जिन ! ॥ २३ ॥ ननु नव्यरम्यरञ्जितसुरनम्यपद ! प्रभावतो भवतः । आजन्मजातवैराच्चित्रं तिर्यग्गणेनापि ॥ २४ ॥ विदितचरित्रेषु रहो मुख्यां के के न विषयजं सौख्यम् । जिनवर ! भवता तु जने तत् त्यकं विषमिवाऽवेत्य ॥ २५ ॥ १ अक्षमि हे ईश ! । २ अमानि। ३ तेन-भवता चन्द्रोपमितिः, युक्तं जगन्नाथः असि । ४ अभावि इति क्रियापदम् । ५ असौ त्वं सदा न न अधा:-अदधः । ६ आपि क्रियापदम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy