SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ मुनिप्रणीता ] जिनस्तुतिपञ्चाशिका ( ३७ ) भाषितशुचिसत्यागेम उदितोदितधाम ! सद्गुणग्राम ! | कृत्वा कर्मनिरासं दूरीकृतदुःखभववासम् ॥ ८ ॥ निर्जितमनोज ! हारोज्ज्वलगुणमण्डल ! विशालतमभाल ! | कृपया भावारिभयं भविनां भूमौ भवानेव ॥ ९ ॥ अष्टविधकर्मरोगापनोदविशदागदः सदा विमदः । त्वमविपदं जन्तूनां हितेच्छया शुद्धसिद्धान्तम् ॥ १० ॥ शशिशोभमानसाधिर्ते यशोऽतिघवलीकृतावनीवलयः । नि:शेषजन्तुकरुणां निष्कारणवत्सलोत्र भवान् ॥ ११ ॥ कनकविराजितैमोचे सुरनरतिर्यगूविजातसंङ्कोचे । भवतेश ! समवसरणे द्वेधा धर्मो धराभरणे ! ॥ १२ ॥ न कदा करुणाम्बुनिधे रजनीश ! परोपकारिता भवतः । विद्रुतेह यथा तपनात् प्रकाशिता विश्वविश्वहिता ॥ १३ ॥ उज्झितसंसृतदोषे पापिन्यपि जनितपुण्यमतिपोषे । मैत्र्याsara रोषे निरीक्षिते भवति कृततोषे ॥ १४ ॥ ननु 'निर्ममे त्वदीये हृदये जिन ! वेद्मि मुदितया वासः । मित्रामित्रेषु यतस्त्वमेकरूपः सदा विदितः ॥ १५ ॥ शिवपदसाधनविहितादरस्य भवतस्तपः समाचरतः । हृदये क्षान्तिमये स्थानं न कदापि रोषेण ॥ १६ ॥ १ १ अगमः । २ जहार उज्ज्वल० । ३ अगद:-अचीकथः भवित- अदधात् । ५ ऊचे - अवादि । ६ करुणाम्बुधे: हे ईश ! अजनि । ७ स्यादौ सप्तमी त्यादौ वर्तमाना । ८ निर्ममे - ममत्वरहिते, क्रियापदपक्षे निर्ममे - निर्मितवान् । ९ अये इति क्रियापदम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy