________________
( ३६ )
जैनस्तोत्र सन्दोहे
[ १६ ] श्रीमहीमेरुमुनिप्रणीता. जिनस्तुतिपञ्चाशिका |
( क्रियागुप्ता )
सकलसुरेश्वरमुख्या विबुधाः सुविशुद्धबुद्धिनिधयोऽपि । स्तवनं तीर्थाधिपते ! 'जिनेश ! ते नैव कर्तुमिह ॥ १ ॥ इति जानन्नपि नित्यं तथाप्यहं मुग्धमानसः पवितुम् । 'विनयी हे जिनराज ! स्तवनमिषात्ते निजां जिह्वाम् ॥ २ ॥ मन्ये न सर्वशास्त्रे तव वृत्तं विबुधवर्ण्यमानमिह । पुण्यप्रभूतगुरुतरमहिमाँऽतिक्रान्तसकलसुरम् || ३ || स्तुतिवादीक्षेमकरध्वजं जिन ! त्वां सुरेशसंसेव्यम् । समवसृतिमध्यभाजं संसृतिहरणं कदा मोदात् ॥ ४ ॥ तत्त्वतरुजलधारासासितभूवलय ! भव्यजनवाराः । अतिशयसमूहशाली नौथ ! भवांश्चरणगुणपाली || ५ | सकल ! ससार ! सलक्षण ! संसारासारतां समधिगत्य । सर्वज्ञ ! सर्वसङ्गे भगवन्न भवानभावाय || ६ || संसारवारिराशि विषमतरं दुस्तरं च जिनराज ! | विदभासिततौरसुखं लब्ध्वा वैराग्यमत्र भवान् ॥ ७ ॥
Jain Education International
[ श्रीमहीमेक
१ हे जिन ! ईशते । २ विनयी ईहे । ३ गुरुतरमहि माति । १ ई । ५ नाथ - पालय । ६ ससार । ७ ततार-तीर्णवान्, सुखं क्रियाविशेषणम् ।
For Personal & Private Use Only
www.jainelibrary.org