________________
www
wwwwwwww
सूरिसूत्रितम्] साधारणजिनस्तवनम् (३१)
वृषेशं रोषविषयवैरिशोषरसैवरम् । उषाहःसायवेलासु सेवेयाऽहं लवे लवे ॥३॥ श्रेयः श्रीवल्लिवलयशाल ! शीलालयाशय !। उवींशेखरसेव्योऽसि रसावासववासवैः ॥ ४ ॥ रसाशीविषविश्वस्वविहायस्सु शिवाश्रय ! अवार्यवीर्यसूर्योऽसि वसुराशिविलाससूः ॥ ५ ॥ संसारवैरिवरस्यावसायहर ! संहर ! अहोऽरिवारं विश्वस्य श्रेयःश्रीशर्वरीश्वरः ॥ ६ ॥ अशरीररिसंहारहर्षसहर्षसाहस !। विश्वविश्वेश ! विश्वीयसर्वांहो विरसं हर ॥ ७ ॥ पञ्चवर्गरहितामिमां स्तुति
पिष्टपञ्चविषयाः पठन्ति ये। पञ्च पञ्चिन्महाव्रता ध्रुवं
पञ्चमी गतिमवाप्नुवन्ति ते ॥ ८ ॥
[१४] परमात्मषत्रिंशिका।
सत्वेषु मैत्री गुणिषु प्रमोदं क्लिष्टेषु जीवेषु कृपापरत्वम् ।
मध्यस्थभावं विपरीतवृत्तौ सदा ममात्मा विदधातु देव ! ॥१॥ ... शरीरतः कर्तुमनन्तशक्तिं विभिन्नमात्मानमपास्तदोषम् । .
जिनेन्द्र ! कोषादिव खड्गयष्टिं तव प्रसादेन ममास्तु शक्तिः ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org