________________
( ३० )
जैनस्तोत्रसन्दोहे
[श्रोअमरचन्द्र
एवंविधे शास्तार वीतदोषे महाकृपालौ परमार्थवैये । मध्यस्थभावोऽपि हि शोच्य एव प्रद्वेषदग्धेषु क एष वादः ? ||६|| न तानि चक्षूंषि न यैर्निरीक्ष्यसे न तानि चेतांसि न यैर्विचिन्त्यसे । न ता गिरो या न वदन्ति ते गुणान्न ते गुणा ये न भवन्तमाश्रिताः ॥ ७ ॥ तयसे येन तन्मनो येन चिन्त्यसे । सज्जनानन्दजननी सा वाणी स्तूयसे यया ॥ ८ ॥
न तव यान्ति जिनेन्द्र ! गुणा मिति मम तु शक्तिरूपैति परिक्षयम् ।
निगदितैर्बहुभिः किमिहापरै
रपरिमाणगुणोऽसि नमोऽस्तु ते ॥ ९ ॥
[१३]
Jain Education International
वायटगच्छीयश्री अमरचन्द्रसूरिमूत्रितम्
पञ्चवर्गपरिहारमयं
साधारण जिनस्तवनम् ।
( पद्मानन्दमहाकाव्यमध्यगतम् ) अनुष्टुब्वृत्तम् ।
संसारसारं शवश्रीसरसी सरसीरुहम् । ऋषीश्वरं वृषावासं श्रेयसां संश्रयं श्रये ॥ १ ॥ सुरावासश्रिया स्वैरं स सर्वसहया सह ।
आशा यशः शशी यस्य सहासाः सहसाश्रयत् ॥२॥
युग्मम् ।
For Personal & Private Use Only
www.jainelibrary.org