SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Vvvvv Vvvvvvvvvs vvvvvvvvvvv ( ३२ ) जैनस्तोत्रसन्दोहे [श्रीअमरचन्द्रदुःखे सुखे वैरि णि बन्धुवगै योगे वियोगे भवने वने वा। . निराकृताशेषममत्वबुद्धेः समं मनो मेऽस्तु सदापि नाथ ! ॥३॥ मुनीश ! लीनाविव कीलिताविव स्थिरैनिखाताविव बिम्बिताविव । पादौ त्वदीयो मम तिष्टतां सदा तमो धुनानौ हृदि दीपकाविव ॥४॥ एकेन्द्रियाद्या यदि देव ! देहिनः प्रमादिना सञ्चरता यतस्ततः । क्षता विभिन्ना मलिता निपीडिता ममास्तु मिथ्या दुरनुष्ठितं तदा।।५।। मुक्तिमार्गप्रतिकूलवर्तिना मया कषायाक्षवशेन दुर्धिया । चारित्र्यशुद्धेर्यदकारि लोपनं तदस्तु मिथ्या मम दुष्कृतं प्रभो ! ॥६॥ विनिन्दनालोचनगर्हणैरहं मनोवचःकायकषायनिर्मितम् । निहन्मि पापं भवदुःखकारणं भिषग विषं मन्त्रगुणैरिवाखिलम् ॥७॥ अतिक्रमं यं यमपि व्यतिक्रगं जिनातिचार स्वचरित्रकर्मणः । व्यधामनाचारमपि प्रमादतः प्रतिक्रमं तस्य करोमि शुद्धये ॥८॥ क्षितिं मनःशुद्धिविधेरतिक्रमं व्यतिक्रमं शीलवृतेविलवनम् । प्रभोऽतिचारं विषयेषु वर्तनं वदन्त्यनाचारमिहातिशक्तिताम् ।।९।। यदर्थमात्रापदवाक्यहीनं मया प्रमादादिह किञ्चनोक्तम् । तन्मे क्षमित्वा विदधातु देवी सरस्वती केवलबोधलब्धिम् ॥१०॥ बोधिः समाधिः परिणामबुद्धिः स्वात्मोपलब्धिः शिवसौख्यसिद्धिः । चिन्तामणि चिन्तितवस्तुदाने त्वां वन्दमानस्य ममाऽस्तु देव ! ॥११॥ यः स्मयते सर्वमुनीन्द्रवृन्दैर्यः स्तूयते सर्वनरामरेन्द्रैः । यो गीयते वेदपुराणशास्त्रैः स देवदेवो हृदये ममास्ताम् ॥१२॥ यो दर्शनज्ञानसुखस्वभावः समस्तसंसारविकारबाह्यः । समाधिगम्यः परमात्मसञ्ज्ञः स देवदेवो हृदये ममास्ताम् ॥१३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy