________________
( २६ )
जैनस्तोत्र सन्दोहे
[९] सर्वजिनस्तवः ।
-++
Jain Education International
जिनपते ! द्रुतमिन्द्रियविप्लवं दमवतामवतामवतारणम् । वितनुषे भववारिधितोऽन्वहं सकलया कलया कलयाकया ॥१॥ तव सनातन सिद्धिसमागमं विनयतो नयतो न यतो जनम् । जिनपते ! सविवेकमुदित्वराधिकमला कमला कमलासयेत् ॥ २ ॥ भवविवृद्धिकृते कमलागमो जिनमतो नमतो न मतो मम । न रतिदाऽमर भूरुहकामधुक् सुरमणीरमणीरमणीयता ॥ ३ ॥ किल यशः शशिनि प्रसृते शसी नरकतार कतारकतामितः । व्रजति शोषतोऽपि महानहो विभवतो भवतो भवतोयधिः || ४ || न मनसो मम येन जिनेश ! ते रसमयः समयः समयत्यसौ । जगदभेदि विभाव्य ततः क्षणादुपरता परता परतापकृत् ॥५॥ त्वयि बभूव जिनेश्वर ! भास्वती शममता ममता मम तादृशी । यतिपते ! तदपि क्रियते न किं शुभवता भवता भवतारणम् ॥६॥ भवति यो जिननाथ ! मनः शमाञ्चित ! नुते तनुते तनुतेजसि । किमिव नो भविनस्तमतां सुखप्रसविता सविता सवितारयेत् ॥७॥ परमया रमया रमयात् तवाङ्किमलं कमलं कमलम्भयम् । न नतमानत मानतमां नमन् वरविभारविभारविभासुर ! ॥८॥ अमरस|मरसामरनिर्मिता जिन ! नुतिर्ननु तिग्मरुचेर्यथा । रुचिरसौ चिरसौख्यपदप्रदा निहतमोहतमोरपुवीर ! मे ॥ ९ ॥
[ भावदेव -
For Personal & Private Use Only
www.jainelibrary.org