________________
सूरिप्रणीतम्]
साधारणजिनस्तवनम्
(२३ )
marrian
सदा भवारातिभिदे नतेन्द्र ! सदाभवारागवशी कृतीस्त्वाम् । सदा भवाराङ्ग न पापिनः स्वः सदाभवाराद्भुतहारयामे ॥८॥ सदाऽगमं ते वितसंविदुल्ल- सदागमं तेज इवाऽत्र मूर्तम् । सदा गमन्तं शरणं वरेण्य- सदा गर्म तेन सुखी भवेयम् ॥९॥ महायमानं जन भाव भास्व- महायमानं गतिदे नमरते । महायमानं हरतेऽत्र भावा-- महायमानन्दपदाय कुर्वे ॥१०॥ एवमीश ! मयका बहुभावा
देव सुन्दरगुणाम्बुसमुद्र !। संस्तुतो जिन ! पदाम्बुजसेवा
मेव मे वितनु विश्वनमस्य ! ॥११॥
[७] साधारणजिनस्तवनम् ।
प्रातिहार्यकलितासनशोभं
त्वां स्तुवे जिनपते ! जितलोभम् । वीतराग ! विगतान्तररोगं
सूपदिष्टशिवकारणयोगम् ॥१॥ योजनक्षितिषु विस्तृतशाखो
भात्यशोकतरुरेष तवेश !। उल्लसत्परिमलः परितोऽयं
पञ्चवर्णकुसुमप्रकरश्च ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org