SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ NAVRAN nmmmmmmmmmm सूरिविरचितम् ] साधारणजिनस्तोत्रम् (१७) एकस्मिन्नपि नाथ ! तेषु विहिते कुत्रापि जन्मान्तरे प्रोन्मथ्नन्ति कदाचिदेव नियतं नैवंविधा व्याधयः ॥ ४॥ एतानि नाथ ! चटुलानि दुराशयानि लुब्धानि रम्यविषयोपनिबन्धनानि । दुर्दान्तवाजिसदृशान्यविधेयभावाद् वश्यानि मे कुरु सदैव षडिन्द्रियाणि ॥ ५ ॥ मूढो विवेकविकलो विधृतो बाहु न त्वं शृणोषि यदहं जिन ! रारटीमि । मां तत्र कर्मणि नियोजय येन देव ! संसारचक्रगहनं न पुनर्विशामि ॥ ६ ॥ सर्वापदां निलयमध्रुवमस्वतन्त्र ___ मासन्नपातमविवेकमसारमज्ञम् । यावच्छरीरकमिदं न विपद्यते मे ___ तावन्नियोजय विभो ! कुशलक्रियासु ॥ ७ ॥ अज्ञस्य मे हृतविवेकमहाधनस्य चौरैः प्रभो ! बलिभिरिन्द्रियनामधेयैः । संसारकूपकुहरे विनिपातितस्य देवेश ! देहि कृपणस्य करावलम्बम् ॥ ८ ॥ दीने भोजनतत्परेऽथ कृपणे निद्राभिभूतेऽलसे .. व्याधिव्याकुलिते कुभूषणरते धृष्टे च दुष्टे शठे । मिथ्यावादिनि कामकोपसहिते क्रूरे कुरूपे जडे कारुण्यं मयि नाथ ! नाऽथ कुरुषे भावकयुक्ते सदा ॥९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy