________________
(१२) जैनस्तोत्रसन्दोहे [श्रीहेमचन्द्राचार्य
पुण्यराशिः श्रियोराशिस्तेजोराशिरसंशयी । ज्ञानोदधिरनन्तौजा ज्योतिर्मूर्तिरनन्तधीः ॥ ७॥ विज्ञानोऽप्रतिमो भिक्षुर्मुमुक्षुर्मुनिपुङ्गवः । अनिद्रालरतन्द्रालर्जागरूकः प्रमामयः ॥ ८॥ कर्मण्यः कर्मठोऽकुण्ठो रुद्रो भद्रोऽभयङ्करः । लोकोत्तरो लोकपतिलोकेशो लोकवत्सलः ॥ ९॥ त्रिलोकीशस्त्रिकालज्ञत्रिनेत्रत्रिपुरान्तकः । त्र्यम्बकः केवलालोकः केवली केवलेक्षणः ॥ १०॥ समन्तभद्रः शान्तादिर्धर्माचार्यो दयानिधिः । सूक्ष्मदर्शी सुमार्गज्ञः कृपालुर्मार्गदर्शकः ॥ ११ ॥ प्रातिहार्योज्ज्वलस्फीतातिशयो विमलाशयः ।
सिद्धानन्तचतुष्कश्रीजीयाच्छ्रीजिनपुङ्गवः ॥ १२ ॥ उपसंहारः
एतदष्टोत्तरं नामसहस्रं श्रीमदर्हतः। भव्याः पठन्तु सानन्दं महानन्दौककारणम् ॥ १३ ॥ इत्येतजिनदेवस्य जिननामसहस्रकम् । सर्वापराधशमनं परं भक्तिविवर्द्धनम् ॥ १४ ॥ अक्षयं त्रिषु लोकेषु सर्वस्वर्गकसाधनम् । स्वर्गलोकैकसोपानं सर्वदुःखैकनाशनम् ॥ १५ ॥ समस्तदुःखहं सद्यः परं निर्वाणदायकम् । कामक्रोधादिनिःशेषमनोमलविशोधनम् ॥ १६ ॥ शान्तिदं पावनं नृणां महापातकनाशनम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org