________________
चिरचित
अर्हन्नामसहनसमुचयः
भजितो जितकामारिरमितोऽमतिशासनः । जितक्रोधी जितामित्रो जितक्लेशो जितान्तकः ॥ ८॥ सत्याम्ना सत्यविज्ञानः सत्यवाक् सत्यशासनः । सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः ॥ ९ ॥ सदायोगः सदाभोगः सदातृप्तः सदाशिवः । सदागतिः सदासौख्यः सदाविद्यः सदोदयः ॥ १० ॥ सुघोषः सुमुखः सौम्यः सुखदः सुहितः मुहत् । सुगुप्तो गुप्तिमृद् गोप्ता गुप्ताक्षो गुप्तमानसः ॥ ११ ॥ इति श्रीमहनामसमसमुच्चये सप्तमशतप्रकाशः ॥७॥
बहद् बृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः । मनीषी धिषणो धीमान् शेमुषीशो गिरांपतिः ॥ १ ॥ नैकरूपो नयोत्तुङ्गो नैकात्मा नैकधर्मकृत् । अविज्ञेयः प्रतात्मा कृतज्ञः कृतलक्षणः ॥ २ ॥ 'ज्ञानगर्भो दयागर्भो रत्नगर्भः प्रभास्वरः । पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः ॥ ३ ॥ लक्ष्मीशः सदयोऽध्यक्षो दृढयोनिर्नयाशिता । मनोहरो मनोज्ञोऽहो धीरो गम्भीरशासनः ॥ ४ ॥ धर्मयूपो दयायोगो धर्मनेमिर्मुनीश्वरः ।
धर्मचक्रायुधो देवः कर्मा धर्मघोषणः ॥ ५ ॥ .. ..स्थेयान् स्थवीयान् नेदीयान् दवीयान् दूरदर्शनः । ।
सुस्थितः स्वास्थ्यमा सुस्थो नीरजस्को गतस्पृहः ॥ ६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org