SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ( ६ ) जैनस्तोत्र सन्दोहे [ श्रीहेमचन्द्राचार्य सुधर्मा धर्मधर्धर्मो धर्मात्मा धर्मदेशकः । धर्मचक्री दयाधर्मः शुद्धधर्मो वृषध्वजः ॥ १ ॥ वृषकेतुर्वृषाधीशो वृषाङ्कव वृषोद्भवः । हिरण्यनाभिर्भूतात्मा भूतभृद् भूतभावनः ॥ २ ॥ प्रभवो विभवो भास्वान्मुक्तः शक्तोऽक्षयोऽक्षतः । कूटस्थः स्थाणुरक्षोभ्यः शास्ता नेताऽचलस्थितिः ॥ ३ ॥ अग्रणीग्रमणीयो गण्यगण्यो गणाप्रणीः । गणाधिपो गणाधीशो गणज्येष्ठो गणार्चितः ॥ ४॥ गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणवान् गुणी । गुणादरो गुणोच्छेदी सुगुणोऽगुणवर्जितः ॥ ५ ॥ शरण्यः पुण्यवाक् पूतो वरेण्यः पुण्यगीर्गुणः । अगण्यपुण्यधीः पुण्यः पुण्यकृत् पुण्यशासनः ॥ ६ ॥ अतीन्द्रोऽतीन्द्रियोऽधीन्द्रो महेन्द्रोऽतीन्द्रियार्थदृक् । अतीन्द्रियो महेन्द्राच्र्यो महेन्द्रमहितो महान् ॥ ७ ॥ उद्भवः कारणं कर्ता पारगो भवतारकः । अग्राह्यो गहनं गुह्यः परर्द्धिः परमेश्वरः ॥ ८ ॥ अनन्तर्द्धिरमेयार्द्धरचिन्त्यर्द्धिः समग्रधीः । प्राप्यः प्राग् यूहरो ऽत्यमः प्रत्यग्रोऽग्रोऽग्रिमोऽग्रजः ॥ ९ ॥ प्राणकः प्रणवः प्राणः प्राणदः प्राणितेश्वरः । प्रधानमात्मा प्रकृतिः परमः परमोदयः ॥ १० ॥ ॥ इति श्री अर्हन्नामसहस्रसमुच्चये पश्चमवातप्रकाशः ॥ ५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy