________________
'विरचितः ]
अर्हन्नामसहस्रसमुच्चयः
कृती कृतार्थः संस्कृत्यः कृतकृत्यः कृतक्रतुः । नित्यो मृत्युञ्जयो ऽमृत्युरमृतात्माऽमृतोद्भवः ॥ १ ॥ हिरण्यगर्भः श्रीगर्भः प्रभूतविभवोऽभवः । स्वयम्प्रभः प्रभूतात्मा भवो भावो भवान्तकः । ॥ २ ॥ महाऽशोकध्वजोऽशोकः कः स्रष्टा पद्मविष्टरः । पद्मेशः पद्मसम्भूतिः पद्मनाभिरनुत्तरः ॥ ३ ॥ पद्मयोनिर्जगद्योनिरित्यः स्तुत्यः स्तुतीश्वरः । स्तवनार्हो हृषीकेशोऽजितो जेयः कृतक्रियः ॥ ४ ॥ विशाल विपुलोद्योतितुलोऽचिन्त्यवैभवः । सुसंवृत्तः सुगुप्तात्मा शुभंयुः शुभकर्मकृत् ॥ ५ । एकविधो महावैद्यो मुनिः परिवृढो दृढः ॥ पतिर्विद्यानिधिः साक्षी विनेता विहतान्तकः ॥ ६ ॥ पिता पितामहः पाता पवित्रः पावनो गतिः । त्राता भिषग्वरो वर्यो वरदः पारदः पुमान् ॥ ७ ॥ कविः पुराणपुरुषो वर्षीयान् ऋषभः पुरः । प्रतिष्ठाप्रसवो हेतुर्भुवनैकपितामहः ॥ ८ ॥ श्रीवत्सलक्षणः श्लक्ष्णो लक्षण्यः शुभलक्षणः । निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्कलेक्षणः ॥ ९ ॥ सिद्धिदः सिद्धसङ्कल्पः सिद्धात्मा सिद्धशासनः । बुद्धबोद्धयो महाबुद्धिर्वर्द्धमानो महर्द्धिकः ॥ १० ॥ वेदाङ्गो वेदविद वेद्यो जातरूपो विदांवरः । . वेदवैद्यः स्वसंवेद्यो विवेदो वदतांवरः ॥ ११ ॥
॥ इति श्रीभईनामसहस्रसमुच्चये चतुर्थशतप्रकाशः ॥ ४ ॥
Jain Education International
(५)
For Personal & Private Use Only
www.jainelibrary.org