SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ विरचितः] अर्हनामसहस्रसमुच्चयः जिननाथो जगन्नाथो जगत्स्वामी जगत्प्रभुः । जगत्पूज्यो जगद्वन्द्यो जगदीशो जगत्पतिः ॥१॥ जगन्नेता जगज्जेता जगन्मान्यो जगद्विभुः । जगज्ज्येष्ठो जगच्छ्रेष्ठो जगद्ध्येयो जगद्धितः ॥ २ ॥ जगदर्यो जगद्वन्धुर्जगच्छास्ता जगत्पिता । जगन्नेत्रो जगन्मैत्रो जगद्दीपो जगदगुरुः ॥ ३ ॥ स्वयंज्योतिरजोऽजन्मा परं तेजः परं महः । परमात्मा शमी शान्तः परंज्योतिस्तमोऽपहः ॥ ४ ॥ प्रशान्तारिरनन्तात्मा योगी योगीश्वरो गुरुः। .. भनन्तजिदनन्तात्मा भव्यबन्धुरबन्धनः ॥ ५॥ शुद्धबुद्धिः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः । सिद्धः सिद्धान्तविद् ध्येयः सिद्धः साध्यः सुधीः सुगीः ॥६॥ सहिष्णुरच्युतोऽनन्तः प्रभविष्णुर्भवोद्भवः । स्वयंभूष्णुरसम्भूष्णुः प्रभूष्णुरभयोऽव्ययः ॥ ७॥ दिव्यभाषापतिर्दियः पूतवाक् पूतशासनः । पूतात्मा परमज्योतिर्द्धर्माध्यक्षो दमीश्वरः ॥ ८॥ निर्मोहो निर्मदो निःस्वो निर्दम्भो निरुपद्रवः । निराधारो निराहारो निर्लोभो निश्चलोऽचलः ॥ ९॥ निष्कामी निर्ममो निष्वक् निष्कलङ्को निरञ्जनः । निर्गुणो नीरसो निर्भी निर्व्यापारो निरामयः ॥ १०॥ निर्निमेषो निराबाधो निर्द्वन्द्वो निष्क्रियोऽनघः । निःशङ्कश्च निरातङ्को निष्फलो निर्मलोऽमलः ॥ ११ ॥ ॥ इति श्रीअर्हनामसहस्नसमुच्चये द्वितीयशतप्रकाशः ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy