SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ (२) जैनस्तोत्रसन्दोहे [श्रीहेमचन्द्राचार्य विश्वदृश्वा विभुर्धाता विश्वेशो विश्वलोचनः । विश्वव्यापी विधुर्वेधाः शाश्वतो विश्वतोमुखः ॥ ५॥ विश्वपो विश्वतःपादो विश्वशीर्षः शुचिश्रवाः । विश्वदृग् विश्वभूतेशो विश्वज्योतिरनश्वरः ॥ ६ ॥ विश्वसट् विश्वसूर्विश्वेट विश्वभुक् विश्वनायकः । विश्वाशी विश्वभूतात्मा विश्वजिद् विश्वपालकः ॥ ७॥ विश्वकर्मा जगद्विश्वो विश्वमूर्तिर्जिनेश्वरः । भूतभाविभवद्भर्ता विश्ववैद्यो यर्त श्वरः ॥ ८ ॥ सर्वादिः सर्वदृक् सार्वः सर्वज्ञः सर्वदर्शनः । सर्वात्मा सर्वलोकेशः सर्ववित् सर्वलोकजित् ॥ ९ ॥ सर्वगः सुश्रुतः सुश्रः सुवाक् सूरिर्बहुश्रुतः । सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् ॥ १० ॥ युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः । ब्रह्मविद् ब्रह्मतत्त्वज्ञो ब्रह्मयोनिरयोनिजः ॥ ११ ॥ ब्रह्मनिष्ठः परब्रह्मः ब्रह्मात्मा ब्रह्मसम्भवः । ब्रह्मेड् ब्रह्मपतिर्ब्रह्मचारी ब्रह्मपदेश्वरः ॥ १२ ॥ विष्णुर्जिष्णुर्जयी जेता जिनेन्द्रो जिनपुङ्गवः । परः परतरः सूक्ष्मः परमेष्ठी सनातनः ॥ १३ ॥ इति श्रीमहन्नामसहस्रसमुच्च ये प्रथमशतप्रकाशः ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy