________________
॥ ॐ अर्हम् नमः ॥ अनेकजैन पूर्वाचार्यविरचितः
॥ श्रीजैनस्तोत्र सन्दोहः ॥
[१]
श्री हेमचन्द्राचार्यविरचितः श्रीअर्हन्नामसहस्त्रसमुज्ञ्चयः ।
'भ' नामापि कर्णाभ्यां शृण्वन् वाचा समुच्चरन् । जीवः पीवरपुण्यश्रीर्लभते फलमुत्तमम् ॥ १ ॥ अत एव प्रतिप्रातः समुत्थाय मनीषिभिः । भक्त्याऽष्टाप्रसहस्त्रार्हन्नामोच्चारो विधीयते ॥ २ ॥ श्रीमानर्हन् जिनः स्वामी स्वयम्भूः शम्भूरात्मभूः । स्वयंप्रभुः प्रभुर्भोक्ता विश्व भूरपुनर्भवः ॥ ३ ॥ विश्वात्मा विश्वलोकेशो विश्वतश्चक्षुरक्षरः । 'विश्वविद विश्वविद्येशो विश्वयोनिरनीश्वरः ॥ ४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org