________________
प्रस्तावना ।
(१०५)
____ यथामति कृते कारितेऽपि संशोधने प्रत्यन्तराभावात् प्रमाददोषेण च समुद्भूता लोचनगोचरीभवेयुर्मनुष्यस्वमावसुलभाः यत्र कुत्रचित् स्खलनाः ता विशदीकुर्वन्तु सुहृदयाः सहृदयाः, विमलीकुर्वन्तु चेतः स्वकीयं स्तुतिस्तोत्रादीनाममीषां पठनपाठनेन, शकलीकुर्वन्तु नैकभवोपचितं विमलकेवलालोकावरोधकारकं दुष्कर्ममहीधरं प्रवर्द्धमाननिर्मलभावनानिशितकुलिशेन भव्यात्मनः, सफलीकुर्वन्तु परिश्रममिमं मामकीनमिति प्रार्थयति निबद्धाञ्जलिर्विदुषामनुचरः
दक्षिणविहारिश्रीमदमरविजयमुनिचरणारविन्दमधुकरः
शिनोर । ता. ३-११-३२
चतुरविजयो मुनिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org