SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ (१०६) [२] द्वादशारनयचक्रम्। को नाम नो वेत्ति साहित्यदत्तदृष्टिः श्रीमल्लवादिसूरिवर्याणांनाम?। एभिरेव महानुभावैः प्रणीतं जैनसाहित्यचूडामणिनिभं नयगमभङ्गसङ्गमातिदुर्गमं ग्रन्थरत्नमिदं श्रीसिंहगणिक्षमाश्रमणप्रणीतविवरणोपेतं विपश्चिताममन्दानन्दसन्दोहदायक प्रयत्नपूर्वकं संशोध्य प्रकटीचिकीर्षामो वयं विभागचतुष्टये। भविष्यति प्रतिविभागस्य वेतनं रूप्यकाणां सप्तकम् । अधैव ग्राहकीभूय लेखनीयानि स्वनामानि जिघृक्षुभिः। [३] अनेकार्थ साहित्यसङ्ग्रहः। ग्रन्थेऽत्र गूर्जरेश्वरकुमारपालप्रतिबोधककलिकालसर्वज्ञश्रीहेमचन्द्राचार्यशिष्यश्रीवर्धमानगणेः, कुमारपालप्रतिबोधादिप्रणेतुः श्रीसोमप्रभाचार्यस्य, विद्वद्वर्गचूडामणेरुदयधर्मगणिनः श्रीहीरविजयसूरिपरीक्षितबुद्धेः श्रीमानसागरस्य च मूर्तिमान् प्रतिभाकलाप इव विपश्चिचित्ताल्हादजनकं विविधबोधविधायि वैदुग्ध्यबन्धुरं शतार्थकाव्यचतुष्टयं विवरणोपेतं सङ्महीतमस्ति । किमत्र विशेषणितेन ? यः किलाकरिष्यत् नयनप्राप्तिसाफल्यमेतनिरीक्षणेन स एवाज्ञास्यद् रसास्वादमस्य । अस्माभिर्विहितास्ति मुद्रणाऱ्या पुस्तिकास्य । यथासाधनं नेष्यामः प्राकट्यम् ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy