________________
जैनस्तोत्रसन्दोहे |
( ४२ )
न्यायविशारद - न्यायाचार्य - महोपाध्याय - श्री यशोविजयः ।
महात्मनोऽस्य जन्मसमय - पितृ - मातृ - कुल - जन्मस्थलादिविषये प्रयततामपि विदुषामनेकेषामद्यावधि न कोऽपि समजायत निर्णयः ।
(९० )
आनन्दघनपद्यरत्नावल्या उपोद्घाते चतुर्थ गूर्जरसाहित्यपरिषन्निबन्धरूप ' न्यायविशारदजीवने ' अन्यत्रापि च विक्रमसंवत् १६७०-८० मध्ये जन्मसमयः कल्पितः, तां चा कल्पनामपाकरोति श्रीलोकनालिकाबालबोधप्रान्तस्थनिम्नलिखितपुष्पिकावलोकनात् प्रतिमाशतकप्रस्तावनायां पं. श्रीप्रतापविजयो गणिः
'स्वार्थाय लोकनालेर्जशविजयाह्नः प्रतनुधिषणः || ४ || इति लोकनालिबालावबोध संवत् १७०७ वर्षे कार्तिक वदि १ भौमे ...... नक्षत्रे लिखाइतम् । १६६५ वर्षे ज्येष्ठ सुदि १३ सोमे अनुराधा नक्षत्रे कृतः । 39
निकृन्तति चैनामपि मोहनलाल दलीचंद देसाई अधुनैव समुपलब्धरासकानुसारेण निरूप्य वैक्रमीय १६८८ तमे वर्षे दीक्षां वणिक्कुलं च, जन्मतः सप्तमेऽष्टमे वा हायने कक्षीकृता श्रीमता दीक्षेति निर्विवादमेव ।
लोकनालिका बालावबोधशब्दरचनां विलोक्यानुमीयते कैश्चित् श्रीमतो गूर्जर ( सौराष्ट्र ) भूर्जन्मस्थलमिति, किन्तूतरासके तु कनोडू ( कम्होडू ) ग्रामे जन्म, पत्तनासन्नवर्तिकुणगिरिग्रामतः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org