________________
प्रस्तावना।
( ९१ ) समेतानां श्रीनयविजयगुरुवर्याणां बभूव परिचय इति स्पष्टतर उल्लेखः ।
(१) प्रतिदिनं भक्तामरस्तवश्रवणमन्तरेण भोजनं न ग्राह्यमिति प्रतिपन्नस्तत्रभवतो मात्रा गुरुसकाशे नियमः । गते च काले कियत्यपि प्रवर्षितुं लग्नो मुशलधारयाविश्रान्तं वारिदः, नाशक्नोदुपाश्रयं गत्वोपगुरु भक्तामरस्तवं श्रोतुम् , न च पचति किमपि सा । पृष्टं कारणं क्षुधातेन श्रीमता। यथास्थितं प्रोक्तवती सा। प्रत्यहं मात्रा समं गच्छतोपाश्रयं श्रावं श्रावमवधारितः श्रीभक्तामरस्तवोऽस्खलितं श्रावितः पूज्यपादेन । ततः पूर्णे प्रत्याख्याने प्रहृष्टा माता, विहिता भुक्ता च रसवती। __(२) निवसता काश्यां द्वादश वत्सरान् समधीतान्यशेषोणि न्यायशास्त्राणि, स्थितश्चैकः सप्तसहस्रश्लोकप्रमाणो ग्रन्थः, तं तु प्रार्थितोऽपि नाध्यापयति स्वमहत्वक्षतिभीत्या गुरुः, लब्धः प्रसन्नीकृत्य गुरुं विलोकनाय । एकस्यामेव निशायां कण्ठीकृत्य चतुः सहस्री श्लोकानां श्रीमता, त्रिसहस्त्री बिनयविजयोपाध्यायैश्च प्रातः प्रत्यर्पितो गुरवे ग्रन्थः ।
इत्येताम्यां प्रघोषाभ्यां ध्वन्यतेऽत्रभवतोऽसाधारणावधारणशक्तिः।
१ द्वादशाब्दी यावदध्युवाष श्रीविनयविजयोपाध्यायेन समं विद्याध्ययनाय वाणारसी श्रीमानिति श्रयते प्रघोषः किन्तु निम्नलिखितग्रन्थरचनादिकालावलोकनात् न क्वापि द्वादशाब्द्या अन्तरः समवतरति दृष्टिप. यम् । तथाहिसं.. १६८७ श्रीविनयविजयेन स्वयं लिखिता यन्त्रराजप्रतिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org