SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्र सन्दोहे | जिनचन्द्रसूरिरस्य पट्टधरः, सं. १५१९ वर्षे पुष्पमालावृत्तिचरित्रपञ्चकवृत्तिविधातुः साधुसोमगणिनो गुरुर्ग्यासदीन साहिसभायां वादिविजेता सिद्धान्तरुच्युपाध्यायः समयध्वजप्रभृतयोऽष्टादश च विद्वांसोऽस्य शिष्याः । भावप्रभाचार्य - कीर्तिरत्नाचार्यादींश्चासौ सूरिपदेऽस्थापयत् । सं. १५१८ वर्षे ऊकेशवंशीयेन केनचित् श्राद्धेन कारिताऽस्य प्रतिमा नगरग्रामे जैनमन्दिरभूमिगृहे स्थापिता वर्तते । सं. १५२४ वर्षे कमलसंयमोपाध्यायेन प्रतिष्ठिते अस्य पादुके च वैभारगिरौ विद्येते । कृतयस्त्वस्य–अपवर्गनाममाला, जिनसप्ततिकाप्रकरणं (गा. २२०) द्वादशाङ्गी पदप्रमाणकुलकं चेति । ( ८४ ) ( ३८ ) महिमेरुः— अत्रैव पृ. ३६ मुद्रित क्रियागुप्तजिनस्तुतिपञ्चाशिकापर्यन्तेगच्छाधिपश्रीजयकीर्तिसूरिशिष्यो महीमेरुरहं स्तवं ते । कृत्वा क्रियागुप्तकवित्वभित्थं त्वामेव दध्यां हृदये जिनेन्द्र ! | इत्यनेन पद्येन ज्ञापयति स्वयं स्वस्य श्रीजयकीर्तिमूरिशिष्यत्वम् श्रीजयकीर्तिनूरिस्तु विधिपक्ष ( अञ्चलगच्छ ) पट्टावल्यनुसारेण समलञ्चकार अष्टपञ्चाशत्तमं पट्टम्, श्रीमालीज्ञातीय भूपालश्रेष्ठभार्या भरमादे कुक्षौ सं. १४३३ वर्षे तिमिरपुरे जन्म, सं. १४४४ वर्षे दीक्षा, सं. १४६७ वर्षे स्तम्भतीर्थे (खम्भातंबन्दिरे) सूरिपदम्, सं. १४९३ वर्षे पत्तने गच्छनायकत्वम्, सं. १५०० वर्षे निर्वाणमस्य अतः सुस्पष्टमेवास्यापि पञ्चदशशताब्दीरूपः सत्ताकालः ॥ : Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy