SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। (८३) (३७) जिनभद्रसूरिः। खरतरगच्छालङ्कारश्रीजिनराजसूरेः पट्टधरोऽयं सूरिः। सूरिवर्यस्यास्य सं १४५० वर्षे जन्म, सं. १४६१ वर्षे दीक्षा, सं. १४७५ वर्षे सूरिपदम् सं. १५१४ (५) वर्षे च स्वर्गमनं समजनि । अनेन सम्भवजिनालयप्रतिष्ठायाः प्रागणहिल्लपाटकपुरादिषु विधिधर्मपक्ष( खरतरगच्छ ) श्राद्धसङ्घन ज्ञानरत्नकोशा अकार्यन्त । सागरचन्द्रसूरिय॑न्तरदर्यमानं जिनराजसूरतमालिन्यं विशङ्क्य पश्चात्तं समुदायात् पृथक्कृत्य तत्स्थानेऽमुं-जिनभद्रसरि सं. १४७५ वर्षे प्रतिष्ठितवान् । अनेन सूरिणा सुरिपदानन्तरं यावज्जीवं सं. १५१५ पर्यन्तं प्रतिष्ठितानि प्रभूतानि जिनबिम्बानि, लेखितानि च पुस्तकानि यत्र तत्र प्रेक्षणपथपान्थीभवन्ति । ___सं. १४७६ वर्षे कमलसंयमेनाऽस्य पार्चे दीक्षाऽग्राहि । सं. १५४४ वर्षे जेशलमेरुदुर्गे सर्वार्थसिद्धिसंज्ञकोत्तराध्ययनसूत्रवृत्तिश्च विनिर्ममे । . ___सं. १४८४ वर्षे पत्तनस्थमेनं प्रति जयसागरोपाध्यायः सिन्धुदेशान्तर्गतमल्लिकावाहणपुरात् विद्वत्तापूर्णी विज्ञप्तित्रिवेणी प्रहितवान् । सं. १४९५ वर्षे जयसागरोपाध्यायविहिता सन्देहदोलावलि. वृत्तिश्चैतेन व्यशोधि। ... १ खरतरगच्छपटावल्यादौ जिनराजसूरिपार्श्वे दीक्षा, विद्याध्ययनं तु वाचकशीलचन्द्रपार्श्वऽनेन व्यधायीत्युल्लेखो दृश्यते, परमपवर्गनाममालान्ते श्रीजिनवल्लभजिनदत्तसूरिसेवी जिनप्रियविनेयः ।। - अपवर्गनाममालामकरोजिनभद्रसूरिरिमाम् ॥” इत्युल्लेखदर्शनादस्य गुरोः 'जिनप्रिय' इति ध्वन्यते नाम । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy