SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ (८०) जैनस्तोत्रसन्दोहे __ आसीदस्य 'कृष्णसरस्वतीति' बिरुदमिति ज्ञायतेदधे कृष्णसरस्वतीति बिरुदं यो यं च विद्वत्प्रभु प्राहुर्विज्ञनरा महार्णवसमस्तीर्णो भवो येन च । यस्मै भूपगणो नमस्यति शुभं यस्माच्च यस्योज्ज्वला — मूर्तिः स्फूर्तियुता परा गुणभरा यस्मिंश्च वासं दधुः ॥६१॥ प्रतिष्ठासोमकृतसोमसौभाग्यकाव्यदशमसर्गान्तर्गतेनानेन काव्येन । श्रीआरम्भसिद्धौ सुधीशृङ्गारवार्तिकविरचयितारः श्रीहेमहसगणिनः ' महोपाध्यायश्रीचारित्ररत्नगणिप्रसादप्राप्तविद्यालवेन ' इति स्वविशेषणेन ख्यापयन्ति स्वविद्यादानदायकत्वमस्य । लघूपदेशसप्ततिकाकर्ता सोमधर्मगणिः जिनमाणिक्यगणिश्च शिष्योत्तमावस्य । १ यदाह स्वयमेवयेषां बुद्धिरनुत्तरातिविषमप्रन्थार्थसाक्षात्कृति चेतःसद्मनि दीपिकेन सजती प्रोज्जागरा सर्वदा । सर्वेषामुपयोगिनी समभवद्दानप्रदीपस्तथा प्रन्थो यद्विहितश्छिनत्ति कृतिनामद्यापि दुष्टं तमः ॥ जयन्ति ते वाचकपुङ्गवा श्रीचारित्ररत्ना गुरवो मदीयाः । यद्भाणिता वर्यविनयवाराः कुर्वन्त्यनेका उपकारकोटीः ॥ २ विलोक्यतां जैनस्तोत्रसमुच्चये (पृ. ६) सरस्वतीशब्दयमकमयं श्रीयुगादिजिनस्तवनप्रान्तगत उल्लेखः “इतिश्री प्रतिकाव्यपादचतुष्टयसरस्वतीशब्दयमकमयं श्रीयुगादिजिनस्तवनं कृतं महोपाध्यायाधिराजश्रीचारित्ररत्नगणिशिष्य पं. जिनमाणिक्यगणिना।" Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy