SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। (७९) धनारासः । नेमिनाथनवरसफागः, उपदेशमालाबालावबोधः (सं. १४८५), योगशास्त्रबालावबोधः, षडावश्यकबालावबोधः, आराधना पताकाबालोवबोधः, नवतत्वबालावबोधः, षष्टिशतकबालावबोधः ( सं १४९६) प्रभृतयः प्रकटयन्ति प्रतिभाप्रकर्षमद्यापि । (३५) चारित्ररत्नगणिः। श्रीमानसौ स्वयं परे च ग्रन्थकृतो निवेदयन्ति सर्वत्र श्रीसोमसुन्दरसूरि शिष्यत्वमस्य, परंविद्यानिधानजिनसुन्दरसूरिशिष्यः श्रीसोमसुन्दरगणेन्द्रनिदेशवश्यः । चारित्ररत्नगणिरल्पमतिव्यंधत्त दानप्रदीपमिमात्मपरार्थसिद्धयै ।। १५ ॥ इत्यनेन दानप्रदीपप्रशस्तिपद्येन श्रीजिनसुन्दरसूरय एवास्य दीक्षागुरवः, श्रीसोमसुन्दरसूरीणां तु गच्छाधिपतित्वेन, स्वगुरोर्गुरुत्वेन च बहुमानख्यापनार्थं दर्शयन्ति शिष्यत्वम् । सत्तासमयस्तु-“नवाकवार्धिशीतांशु(१४९९)मिते विक्रमवत्सरे । .. चित्रकूटमहादुर्गे ग्रन्थोऽयं समपद्यत ॥ १६॥" ___ इति दानप्रदीपरचनाकालमावेदयता स्वयमेव ज्ञापितो विक्रमीयपश्चदशशताब्दयुत्तरार्धरूपः श्रीमता। __ अत्रैव पृ.७० मुद्रित चतुर्विंशति जिनस्तुत्यतिरिक्ता दानप्रदीपचित्रकूटमहावीरविहारप्रशस्तिप्रमुखा श्रीमतः कृतिविनोदयति मनः सुमनसाम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy