________________
प्रस्तावना ।
( ३६ ) श्रीभावदेवसूरिः । श्रीकालिकाचार्यकुलतिलकः सूरिवर्योऽसौ परिचाययति स्वं श्रीपार्श्वनाथचरित्रप्रशस्त्या स्वयमेव, तथाहि
आसीत् स्वामिस्रुधर्मसन्ततिभवो देवेन्द्रवन्द्यक्रमः श्रीमान् कालिकरिरभुतगुणग्रामाभिरामः पुरा । जीयादेष तदन्वये जिनपतिप्रासादतुङ्गाचलभ्राजिष्णुर्मुनिरत्नगौरवनिधिः पण्डिल्लगच्छाम्बुधिः ॥४॥
तस्मिंश्चान्द्रकुलोद्भवः कुवलयोद्बोधैकबन्धुर्यशोज्योत्स्नापूरितविष्टो विधुरिव श्रीभावदेवो गुरुः । यस्याख्यानसमानमेष बहुशो व्याचक्षमाणोऽधुना
गच्छेऽगच्छदतुच्छगूर्जर भुवि प्रष्ठां प्रतिष्ठामिमाम् ॥ ५ ॥ मनसि धनविवेकस्नेहसंसेकदीप्तो
धुतिमतनुत यस्य ज्ञानरूपः प्रदीपः ।
असमतमतमांसि ध्वंसयन्नञ्जसासौ
न खलु मलिनिमानं किन्तु कुत्रापि चक्रे ॥ ६ ॥ श्रीमांस्ततो विजयसिंहगुरुर्मुनीन्द्रमुक्तावलीविमलनायकतां वितेने ।
ज्योतिः सदुज्ज्वलतरं विकिरन् धरित्र्यां
चित्रं न यस्तरलतां कलयाञ्चकार ॥ ७ ॥
. दाक्षिण्येकनिधिर्व्यधान्न सहजे देहेऽप्यहो वाञ्छितं
कारुण्यामृतवारिधिर्विनिदधे गुप्तौ स्वकीयं मनः ।
(८१)
N
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org