SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शान-प्रदीपिका। द्वितीये भानुसंयुक्त दशमे पापसंयुते । दशाहान्मरणं ब्रूयात् शुक्रजीबौ तृतीयगौ ॥१०॥ सप्ताहान्मरणं व यात् रोगिणामहि बुद्धिमान् । उदये चतुरस्र वा पापास्त्वष्टदिनान्मृतिः ॥११॥ लग्नद्वितीयगाः पापाश्चतुर्दशदिनान्मृतिः । लग्नद्विनिधने पापा दशमे पापसंयुते ॥१२॥ त्रिदिनान्मरणं किन्तु दशमे पापसंयुते । तस्मात्सप्तमगे पापे दशाहान्मरणं भवेत् ॥१३॥ निधनारूढगे पापे दृष्टे वा मरणं भवेत् । तत्तद्ग्रहवशादेवं दिनमासादिनिर्णयः ॥१४॥ इति मरणकाण्डः अथ स्वर्गकाण्डः । ग्रहोच्चैः स्वर्गमायाति रिपो मृगकुले भवः । नीचे नरकमायाति मित्र मित्रकुलोद्भवः ॥१॥ स्वक्षेत्र स्वजने जन्म मृतानां तु वदेत् सुधीः । इति स्वर्गकागडः अथ भोजनकाण्डः। कथयामि विशेषेण भुक्तद्रव्यस्य निर्णयम् । पाकभाण्डानि युतानि व्यंजनानि रसं तथा ॥१॥ सहभोक्तन् भोजनानि तदातृस्ते हितान् रिपुन् । मेवराशौ भवेच्छागं वृषभे गव्यमुच्यते ॥२॥ धनुमिथुनसिंहेषु मत्स्यमांसादिभोजनम् । नक्रालिफर्किमीनेषु फलभक्ष्यफलादिकम् ॥३॥ तुलाकन्याघटेष्वेवं शुद्धान्नमिति कीर्तयेत् । भानोस्तिक्तकटुक्षारमिधं भोजनमुच्यते ॥४॥ For Private and Personal Use Only
SR No.090186
Book TitleGyan Pradipika
Original Sutra AuthorN/A
AuthorRamvyas Pandey
PublisherNirmalkumar Jain
Publication Year1934
Total Pages159
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy