SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञान-प्रदीपिका। रविदृष्टऽथवा युक्त चिन्तना देवभूपतेः ॥६॥ शुभचिन्ता गुरौ शेया विवाहो गुरुशुक्रयोः । इत्यारूढकाण्डः - -*:---- अथ छत्रकाण्डः द्वितीये द्वादशे छत्रे सर्वकार्य विनश्यति । गुरौ पश्यति युक्त वा तत्र कार्य शुभं वदेत् ॥१॥ तृतीयैकादशे छत्र सर्वकार्य शुभं भवेत् । तस्मिन्पापयुते दृष्ट विनाशो भवति ध्रु बम् ॥२॥ तस्मिन् सौम्ययुते दृष्टे सर्वकार्य शुभं वदेत् । मिश्रे मिश्रफलं बयात् शास्त्र ज्ञानप्रदीपके ॥३॥ पञ्चमे नवमे छत्रे सर्वसिद्धिर्भविष्यति । तद्वच्छभाशुभे दृष्टे मिश्रे मिश्रफलं वदेत् ॥४॥ द्वितीये चाटमे षष्ठे द्वादशे छत्रसंयुते । नद्रव्यागमो नास्ति न ब्याधिशमनं भवेत् ॥५॥ न कार्यसिद्धिनद्वेषशांतिग्रहवशाद्वदेत् । इति छत्रकाण्डः -0:*:0-- अथ उदयारूढकाण्डः बृहस्पत्युदये श्रेयो धनं विजयमागमः । द्वेषशांतिः सर्वकार्यसिद्धिरेव न संशयः ॥१॥ सौम्यौदये रणोद्योगी जित्वा तद्धनमाहरेत् । पुनरेष्यति सिद्धिः स्यात् छत्रसंदर्शने तथा ॥२॥ व्यवहारस्य विजयं छत्र प्येवमुदाहृतम् । चन्द्रोदयेऽर्थलाभश्चेत् प्रयाणे गमनं भवेत् ॥३॥ चिंतितार्थस्य सिद्धिःस्याच्छनारूढस्थितेऽपि च । शुक्रोदयेऽर्थलाभः स्यात् स्त्रीलाभो ब्याधिमोचनम् ॥४॥ For Private and Personal Use Only
SR No.090186
Book TitleGyan Pradipika
Original Sutra AuthorN/A
AuthorRamvyas Pandey
PublisherNirmalkumar Jain
Publication Year1934
Total Pages159
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy