________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवीतरागाय नमः
ज्ञान-प्रदीपिका
( कग्लप्रश्नग्रन्थः)
अथ उपोद्धातकाण्डः श्रीमद्वीरजिनाधीशं सर्वज्ञ विजगद्गुरुम् । प्रातिहार्याष्टकोपेतं प्रकृष्ट प्रणमाम्यहम् ॥१॥ स्थित्युत्पत्तिव्ययात्मीयां भारतीमाहती सतीम् । अतिपूतामद्वितीयामहर्निशमभिष्टुवे ॥२॥ ज्ञानप्रदीपकं नाम शास्त्र लोकोपकारकम् । प्रश्नादर्श प्रवक्ष्यामि सर्वशास्त्रानुसारतः ॥३॥ भूतं भव्यं वर्तमानं शुभाशुभनिरीक्षणम् । पञ्चप्रकारमार्गश्च चतुष्कन्द्रबलाबलम् ॥४॥ आरूढ छत्रवर्गञ्चाभ्युदयादिबलाबलम् । क्षेत्र दृष्टिं नरं नारी युग्मरूपं च वर्णकम् ॥ ५ ॥ मृगादिनररूपाणि किरणान्योजनानि च । आयूरसोदयाद्यच परीक्ष्य कथयेद्बुधः ॥ ६ ॥ चरस्थिरोभयान् राशीन् तत्प्रवेशस्थलानि च । निशादिवससन्ध्याश्च कालदेशस्वभावकान् ॥ ७॥ धातु मूलं च जीवं च नष्टं मुष्टिञ्च चिन्तनम् । लाभालाभौ गदं मृत्यु भुक्त स्वप्नञ्च शाकुनम् ॥ ८॥ बैवाहिकविचारं च कामचिंतनमेव च । जातकर्मायुधं शल्यं कूपं सेनागमं तथा ॥ ६॥ सरिदागमनं वृष्टिमय॑नौसिद्धिमादितः । फ्रमेण कथयिष्यामि शास्त्र ज्ञानप्रदीपके ॥ १०॥
इति उपोद्धातकाण्डः
For Private and Personal Use Only