SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ गवचिन्तामणिः नित्यं शोकभरान्धचेतसमसौ दृष्ट्वा निजां मातरं तत्रासोत्सुखदुःखपूरितमना मुग्धः क्षणाज्जीवकः । स्नेहालापसुधासुदिग्वजननीस्वान्तस्ततः केनचित् कार्यानण गतः स्वकीयवसति भ्राता च मित्रैर्युतः ।। २९ ॥ सोऽयं राजपुरी प्रवेशनिपुणः प्रापद् बणिग्भूपतेः पुत्री चन्द्रमुखों मनोज्ञरदनां कान्तां ततः कान्तिभाक् । नाम्नाहो ! सुरमञ्जरी गुणधरी मुद्वाह्य संमोदिती कृत्वा कार्यपटुः स्वकीयपितरो शीघ्र विदेहं गतः ।। ३० ॥ गोविन्देन हि मातुलेन सहितो मन्त्रं चिरं जीवक स्तत्रायं च चकार चारकुशलो मित्रयुतो घोहितः । आगत्याय पुनः स मातुलसुतां राज्ञः पुरी वीर्यभाग् वैवाहे किल मण्डपे च विधिना जमाह कौशल्यत: ।। ३१ ॥ कन्याद्वाहनरुष्टदुष्टकुमति युद्धाय बद्धोद्यति काठाङ्गारमसो निहत्य समरे स्वाधीनतां प्राप्नुवन् । यक्षेणाभिकृताभिषेकसुमहः संगत्य मात्रा ततः कान्ताभिः कमनीयकान्तिकलिताभिष्टिभिः संयुतः ।। ३२ ।। कालं दीर्घमजीगमज्जनहितो जैनेन्द्रभक्त्या भृतो मान्यान्धर्मधरान्मुनोनवहितान्समानयन्सादरम् । उद्यानेऽथ विरागकारणमभिप्रेक्ष्यैकदा जीवको वैराग्याभिभृतस्तपः खलु चरन्मोक्षं सुधी: संययौ ।। ३३ ।। सागर चैत्र शुक्ला विक्रमसंवत् १९९० रचयिता पन्नालालो जनः
SR No.090172
Book TitleGadyachintamani
Original Sutra AuthorVadibhsinhsuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1968
Total Pages495
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy