SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ गद्यचिन्तामणिः [२१२ विमलाया: जाक्रान्तस्ततस्तदीयनयनवागुरान्तर्गत इव पदमपि गन्तुमप्रगल्भः स्वल्पेतररागानिस्तद्गृहवितदिकामध्यास्य 'का स्यादियं कुमारी । कानि वा स्युरदसीयान्यमतक्षारोणि नामाक्षराणि । कतमः स्यादस्याः पिता । कथमेनां करेण स्पृशन्कमलयोनिः कामुको नासीत् । अपि नामेयमस्माभिः कदाचि ल्लभ्येत । इत्येवमितरथा च विरच्यमान विचार: कुमार: कुद्मलितकुबेरैश्वर्येण 'तद्गृहवैश्यवरेण 'कुमार, अहमस्मि सागरदत्तो नाम । मम सागारधर्मपत्नी कमला। विमलेति विश्रुता तत्पुत्री। जातमात्रायां तस्यां संगिरते स्म गणितज्ञगणः 'यस्मिन्महात्मनि निजसद्म समीयुषि क्षणादक्रयसंचितमणिविक्रयः स्यात्तस्येयं गृहिणो' इति । गृहागते भवति विक्रोतश्च वीतऋतृकतया पुरा पुञ्जितो मम रत्नराशिः । ततः सर्वथा योग्यां मम सुतां भाग्याधिक, भवान्परिणयतु परिणामा भासीत् बभूव च । ततस्तस्मात्कारणात् तदीयनयन एवं वागुरे बन्धने तयोरन्तर्गतो मध्यपतित इव पदमपि १० एकमपि पदं गन्तुं प्रपातुम् अप्राल्मोऽसमर्थः स्वल्पेतरा प्रभूता रागाी रागपीडा यस्य तथाभूतः सन् तस्याः कन्याया गृहस्य भवनस्य वितदिका ताम् अध्यास्य तन्त्र स्थितो भूत्वा 'इयमेषा कुमारी का स्याद् भवेत् । कानि वा अदसीयानि एतत्संबन्धीनि अमृतक्षारीणि पीयूषप्रवाहीणि नामाक्षराणि नामधेयवर्णाः । अस्याः पिता जनक कतमः कः स्यात् । एनां कन्यां करेण पाणिना स्पृशन् कमलयानिशा कामुकः स्मरात्रिष्टो नासीद् न बभूव । अपि नाम कदाचित् जातुचिद् इयम् अस्माभिः लभ्येत प्राप्येत । इत्येवं १५ पूर्वोकप्रकारम् अन्यथा चान्यमकारेण च विरच्यमानो विचारो दिमों येन तथाभूतः कुमारो जीवकः कुद्रमलितं निमीलितं कुखेरेश्वयं धनपतिवैभवं येन तथाभूतेन तस्य गृहस्य वैश्यवरो रनिग्वरस्तेन 'कुमार ! अहम् सागरदत्तो नामास्मि । मम सागारधर्मपत्नी गृहस्थधर्मपत्नी कमला कमलानामवती । 'विमला' इति विश्रुता प्रसिद्धा तत्पुत्री। तस्यां पुध्यां जातायामवेति जातमात्रायां गणितज्ञगगो ज्योतिविस्समूहः संगिरते स्म प्रकटयति स्म 'यस्मिन् महात्मनि महानुभावे निजलाम स्वसदनं समीयुषि सति समागतवति २० सति क्षणादस्पदैव कालेन अक्रयसंचिताश्च ते मणयश्चेत्यक्रियसंचितमणोऽक्रीतोपषितरत्नानि तेषां विक्रयः स्यात् तस्य महात्मन इयं गृहिणी जाया स्यात्' इति । गृहागते भवति त्वयि वीता विगताः क्रतारो यस्य तस्य भावस्तया पुरा पूर्व पुजितो राशीभूतो मम रत्नराशिमणिराशिविक्रीतश्च केतृमिर्गृहीतश्च । ततस्तस्मास्कारणात् सर्वथा सर्वप्रकारेण योग्यामहीं मम सागरदत्तस्य सुतां पुत्री भाग्येन देवेनाधिकस्तत्सम्बुद्धी हे नेत्ररूपी जाल में फँसे हारके समान वहाँ से एक डग भी चलनेके लिए असमर्थ हो गये अतः २५ अत्यधिक रागसे पीड़ित हो उस घरके चबूतरापर बैठकर इस प्रकार विचार करने लगे कि यह कुमारी कौन हो सकती है ? अमृतको झरानेवाले इसके नाम के अक्षर कौन होंगे? इसका पिता कौन है ? अपने हाथसे इसका स्पर्श करते हुए ब्रह्मा स्वयं कामी क्यों नहीं हुए ? क्या यह कभी हमें प्राप्त हो सकती है ? कुमार ऐसा विचार कर ही रहे थे कि कुबेरके ऐश्वर्यको तिरस्कृत करनेवाला उस घरका सेठ आकर बोला कि हे कुमार ! मैं सागरदत्त हूँ। मेरी ३. गृहस्थधर्मकी पत्नी कमला है और विमला नामसे प्रसिद्ध उसकी पुत्री है। उसके उत्पन्न होते ही ज्योतिषियोंने कहा था कि जिस महात्माके अपने घर आनेपर क्षण भरमें बिना खरीदके सज्जित मणियोंकी बिक्रो हो जायेगी उसकी यह स्त्री होगी। आपके घर आते ही मेरी वह रत्नोंकी राशि बिक गयो है जो कि खरीददार नहीं होनेके कारण पहलेसे सजित पड़ी थी। इसलिए हे भाग्यशालिन् ! आप दूसरा भाव छोड़कर सब प्रकारसे योग्य मेरी इस कन्याको १ म० गृहीणी । २ क. विक्रेत्यातया अपेतकयविक्रयतया, इति टि० ।
SR No.090172
Book TitleGadyachintamani
Original Sutra AuthorVadibhsinhsuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1968
Total Pages495
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy