________________
गचिन्तामणिः
[३५ राश्याः विषादः - चिताभस्मसंकटे' प्रेतबाटे जात, कथमपि जातः कथमनुपलक्षितरक्षाप्रकारे प्रणयिजनशून्ये प्रतिभटनगरपरिसरपरेतवासे वसन्वर्धिष्यसे वा। इत्थमपगतकरुणमतिदारुणमाकस्मिकमप्रतिक्रियमननुभूतपूर्वमतिदु.सह विधिविलसितं विलोकयन्त्या न मे प्राणा: प्रयान्ति' । किमिह करोमि । किं वा व्याहरामि । यदि त्यजामि जीवितं जीवितेश्वरवचनलङ्घनजन्मा महान् दोषः' ५ इत्येवं चान्यथा विलपन्तीं विगतपरिकरां परितापविह्वलामबलाम 'अलमलमतिप्रलापेन' इति कथयन्ती कापि देवता सुतसुकृतपरिपाकप्रेरिता परिचारिकायाश्चम्पकमालाया वेषमास्थाय संन्यधात् । तिरोऽधाच्च तद्दर्शनेन जाताश्वासायास्तस्याः पुनस्तन्मुखाणितभर्तृवियोगविनिश्चयेन
दह्यमानानि यानि शवपिशितानि मृतकमांसानि तेषां विसगन्धेन दुर्गन्धेन कटुकस्तस्मिन् , कल्याणेतराणि यानि चिताभस्मानि चितारक्षास्तैः सकटस्तास्मन् , प्रेतवारे श्मशाने कथमपि केनापि प्रकारेण जातः समुत्पन्नः स त्वं हे जार, हे पुत्र, भनुपलक्षितो रक्षाप्रकारो यस्मिन् तस्मिन् , प्रणयिजनशून्ये स्नेहिजनरहिते, प्रतिमटनगरस्य शत्रनगरस्य परिसरे निकटे विद्यमानो यः परेतवासः श्मशानं तस्मिन् वसन् स्वम् कथं वर्धिष्यसे वा। इत्थमिति-इत्थमनेन प्रकारेण अपगतकरुणं निर्दयम् , अतिदारुणमतिभयंकरम् , आकस्मिकमकस्माजातम् . अप्रतिक्रिय प्रतिकाररहितम्, पूर्व नानुभूतमित्यननुभूतपूर्व, अतिदःसहं कठिनतरं विधिविलसित देवचेष्टितं चिलोकयन्त्याः पश्यन्त्या ये प्राणान प्रयान्ति । इह श्मशाने किं करोमि । किं वा ग्याहरामि कथयामि । यदि जीवितं स्यजामि प्राणघातं करोमि चेत् तर्हि जीवितेश्वरस्य प्राणनाथस्य वचनलखनाजन्म यस्य तथाभूतो महान् दोषः स्यादिति शेषः । इत्येवं चान्यथा विलपन्तीं विलापं कुर्वन्ती विगतपरिकरां विगतस हायां परितापेन संतापेन विह्वला ताम् अबला विजयाम्, 'अति प्रलापेन अलमलं व्यर्थं व्यर्थम' इति कथयन्ती कापि देवता स्वार्थ तल , सुतस्य पुनस्य सुकृतपरिपाकेन
पुण्योदयेन प्रेरिता सती परिचारिकाया: सेविकायाः चम्पक्रमालापा एतनामधेयाया वेषम् भास्थाय धृत्वा . २० संन्यधात् सन्निहितामवत् । तदर्शनेन तदवलोकनेन जाताश्वासायाः समुत्पनसंतोषायास्तस्या राज्याः पुन
समीपवर्ती प्रदेशोंको छोड़ दिया है, जो पकते हुए मुर्दोके मांसकी दुर्गन्धसे दुःखदायी है, और जो चिताओंके अमांगलिक भस्मसे व्याप्त है। हाय बेटा ! जहाँ रक्षाका कुछ भी साधन
दिखाई नहीं देता तथा जो प्रेमीजनोंसे शून्य है ऐसे शत्रुनगर के निकटवर्ती श्मशानमें :. निवास करता हुआ तू किस प्रकार बढ़ सकेगा ? इस प्रकार मैं विधिकी वह लीला देख रही २५ हूँ जो दयासे रहित है, अत्यन्त भयंकर है, अचानक प्राप्त है, प्रतिकारसे रहित है, पहले
कभी भोगने में नहीं आयी, और अत्यन्त दुःसह है। इसे देखते हुए मेरे प्राण क्यों नहीं निकल रहे हैं ? मैं यहाँ क्या करूँ ? क्या कहूँ ? यदि जीवनका त्याग करती हूँ---प्राण छोड़ती हूँ तो प्राणनाथकी आज्ञाके उल्लंघनसे होनेवाला महान् दोष होता है। इस तरह तथा अन्य अनेक
प्रकारसे चिलाप करती, सहायकोंसे रहित, सन्तापसे विह्वल, अबला विजयारानी श्मशान में ३० स्थित थी कि उसी समय पुत्र के पुण्योदयसे प्रेरित कोई देवी, चम्पकमाला नामक सेविकाका
वेष रख 'बस, अधिक विलाप करना व्यर्थ हैं' यह कहती हुई उसके निकट आयी। उसके देखनेसे प्रथम तो उसे सान्त्वना प्राप्त हुई, परन्तु पीछे उसके मुखसे प्राणनाथके वियोगका
१. क० ख० ग० भस्मकण्टके । २. क. ग० प्रेतवाट के ख० प्रेतवाटजात । ३. ख० कथमभिजातः । ४. क. बसन्तं त्वां कथं वर्धयिष्ये । ख. वसत् वर्धयिष्यसे व । ५. क० मम प्राणाः प्रयान्ति ख. विलोकय. त्यामचरमाणाः प्रयान्ति। ग. विलोकयात्या मासमिमे प्राणा: प्रयान्ति ।