________________
पञ्चमः सर्गः
७५
भारतीयः-तं विराटभूपतिदयालक कीचक संमोहनं कत्त न्याय जगाम । कथम्भूतम् ? तं रन्तुकामं संभोक्तुकामम् । कथम् ? वै स्फुटम् । किं कृत्वा ? पूर्व समुपेत्य प्राप्य । किम् ? तदीयं रूपम् । पुनः किं कृत्वा ? आलोक्य च । कं विभ्रमं भूविकारम् । अन्तरेऽस्मिन् वाणैः कृत्वा मकरध्वजोऽपि विव्याध । उक्तञ्च
"हावो मुखदिकारः स्याद्भाचः स्याञ्चित्तसम्भवः ।
बिलासो नेत्रजो ज्ञेयो विभ्रमो भ्रूयुगान्तयोः ॥ ७॥ [ निश्वासमुष्णं वचनं निरुद्धं म्लान मुखाज हदयं हकपम्।
श्रमादिवाङ्ग पुलकप्रसङ्ग पदे पदेऽसौ बिभरांबभूव ॥ ८ ॥ निश्वासमिति--उष्णं निवासं नासावातं तथा निरुद्धं गद्गदं वचनं वाचं तथा म्लानं संकुचितं मुखाज वदनकमलं तथा सकम्पं हृदयं हृत् तथा पुलकप्रसङ्गं रोमाञ्चसम्बन्धि अझं शरीरं पदे पदे श्रमादिव असौ रावणभगिनी कीचको धा त्रिभरबिभूव वभार । पूर्वोक्तानिश्वासादिकं कर्मेति सम्बन्धः । उत्प्रेक्षालङ्कारः ॥८॥
श्वासानुबन्धात्परितापहेतोर्वाप्पानुपातान्मदनस्य पौष्पाः ।
शरा नु वातामिजलात्मकाः स्युरिति क्षणं चिन्तयति स्म किञ्चित् ॥ ९॥ श्वासेति-असौ रावणभगिनी कीचको वा चणं मुहूर्त तावत् किञ्चित् चिन्तयति स्म चिन्तितवती चिन्तितवांश्च । कथमिति श्वासानुबन्धात् नासा वातानुषङ्गात् परितापहेतोः सन्तापहेतोः बाप्पानुपातादश्रुजल प्रपतनात् एतेभ्यस्त्रियः कारणेभ्यः नु अहो मदनस्य कन्दर्परय पोल्पाः कुसुममयाः शराः वाणाः वाताग्निजलात्मकाः अनिलानलजलस्वभावाः स्युः भवेयुरिति सम्बन्धः । स्वभावाख्यानम् ॥ ९ ॥
विश्लेषणं वेत्ति न सन्धिकार्य स विग्रहं नैव समस्तसंस्थाम् ।
प्रागेव वेवेक्ति न तद्धितार्थ शब्दागमे प्राथमिकोऽभवद्वा ॥१०॥ विश्लेषणमिति-विश्लेषणं वियोजनं वेत्ति जानाति, सन्धिकार्य परस्परसंयोगविधानं न वेत्ति विग्रह कलहं वेत्ति समस्तसंस्थां सकलव्यवस्थां नैव वेत्ति प्रागेव प्रथमत एव हितार्थ स्वाथै तल्लोकप्रसिद्धं न वेत्ति ( वेवेक्ति) [ न जानाति ] न विचारयति इत्यनया युक्त्या स मदनः शब्दागमे शब्दश्चागमश्च शब्दागम समाहारापेक्षयैकत्वमत्र ध्वनौ साभस्त्यगतौ च । उपमार्थे प्रयुज्यते-प्राथमिक इवाभवत् संजातः शब्दागमे
द्रौपदीके लोकोत्तर सौन्दर्यको देखकर रमण करने के लिए व्याकुल अतएव विवेक पराङ्मुख उस कीचकको लक्ष्य बनाकर कामदेवने अपने बाणोसे छेद दिया था तथा उसे संमोहन (मूर्छा) में डाल दिया था ॥७॥
पद-पदपर इस सूर्पणखा अथवा कीचककी उष्ण श्वासे निकलती थीं, पचन गद्गद अथवा असम्बद्धसे निकलते थे, मुखकमल मुरझा गया था, हृदय धड़क रहा था, सारे शरीर में पैसा ही रोमाञ्च तथा पसीना हो रहा था जैसा कि परिश्रमसे होता है ॥ ८॥
वह एक क्षण पर्यन्त कुछ ऐसा सोचते थे-अहो कामदेयके पुष्पमय धाण भी वायु, अग्नि और जलमय होने चाहिये क्योंकि इनके लगते ही दीर्घ श्वासें चलती है, सारे शरीर में भीषण दाह होता है तथा आँखोंसे अश्र टपकने लगते हैं ॥९॥
वह कामदेव वियोग कराना जानता है संयोग नहीं कराता है। विपरीत आचरण करता है अनुकूल रूपसे नहीं रहता है, प्रारम्भसे ही भला करनेका प्रयत्न नहीं करता है अतएव वह व्याकरण अथवा आगमके अल्पक्षके समान है-[व्याकरण शास्त्रका प्रारम्भिक छात्र भी अलग-अलग (विसन्धि) पदीका प्रयोग करता है क्योंकि संधि करना नहीं जानता है । केवल विग्रह (पदोंका अर्थ) करता है कृदन्तादि अन्य कार्य नहीं जानता और न तद्धित'
1. अत्र श्लेषालङ्कारः-प०, द० ।