________________
।
द्विसन्धानमहाकाव्यम् अर्थानपेक्षानद्रादीकाले करणमात्रिकान् ।
स पौरानङ्गहारांश्च नमक्रमकटोकरान् ।।१४२।। भनिति-स विष्णुः काले सहये यथोचितसरे अपेक्षान् अर्थान् अद्राक्षीदवलोकितवान् तथा करणमात्रिकान् अधिकारिणः अद्राक्षीत् तथा पौरान नगरनिवासिन अद्रासीत् तथा अङ्गहारान् अद्राक्षीत् कथम्भूतान् ? नमत्क्रमकटोकरान् नम्रोभवच्चरणनितम्बहस्तान् ॥१४२।।
ततसारतमास्थासु मुभावानमितारधीः । धीरताभिनवाभासु सुस्थामा तरसातत ॥१४३।।
(सर्वगतप्रत्यागतम् ) ततसारंति-आतत विस्तृतवान्, कः ? स विष्णुः, कान् ? सुभावान् सुष्टुपरिणामान् कासु ? ततसारतमास्थासु विस्तृतसारतमप्रतिज्ञासु, कथम्भूतासु ? धीरताभिनवाभासु धीरताभिनबा आभा यासा तासु तथोक्तासु निःक्षोभ वत्तरुणप्रतापासु, कथम्भूतः स विष्णुः ? सुस्थामा बलीयानिति कयम् ? तरसा शीघ्रम्, कथम्भूतः अभितारधीः अभिगता तारधीर्यस्य सः सकलशास्त्ररसास्वरसरसिकबुद्धिरित्यर्थः, पुनः ॥१४३।।
क्षयलोभविरामहेतवः प्रकृतीनामभवन यत्र यः।
रिपुमध्यकृतास्य केवलं परवध्यः परकीयतां ययुः ॥१४४॥ क्षयेति-~-यत्र विष्णो नाभवन्न साताः क्षयलोभविरागहेतवः क्षयो बलाभावः, लोभः सर्वेषु पदार्थेषु व्यामोहः, बिरामः अनुरागाभावः, क्षयश्च लोभश्च विरागश्च क्षयलोविरागा, क्षयलोभविरागाः, क्षयलोभविरागाश्च ते हेतवश्च ते तथोक्ताः, कासाम् ? प्रकृतीनां दुर्गाध्यक्षधनाध्यक्षसेनापतिपुरोधोमन्त्रिदैवज्ञलक्षणानाम् । आसां विपरीततया स्वरूपं निरूपयति क्षीणा हि प्रकृतिरकिञ्चित्करा जायते, लुब्धा खलु तमेव पति ग्रसते अहेरपत्यभक्षणयत, लुग्धस्य विरक्ता सती राज्यभङ्गाय जायते इति, एतेन राजनि प्रकृतेः स्वाधीनता कयितेति, तथा यः अध्यकृत अधिकृतवान्, कम् ? रिपुं शत्रु यः शत्रोः स्वामी बभूवेति भावः । एवं सति केवलं परं ययुगताः, काः ? परवचः अन्यकामिन्यः, काम् ? परकीयतां पराधोनत्वम्, कस्य ? अस्य विष्णोः अत्र विष्णोः परनारीसोदरत्वं प्रदर्शितमिति भावः ।।१४४॥
वह उचित और निश्चित समयपर राजकाजको देखता था, याचकोंको सुनता था, अधिकारियोंसे प्रतिवेदन लेता था, नागरिकोंसे मिलता था तथा शिक्षित और पादविन्यासमें पटु नर्तकोंका नृत्य देखता था जिसमें फमर भौर हाथोंका लोच दर्शनीय होता था ॥१४२॥
___ स्वयं प्रास्था ( सम्यग्दर्शन )में दृढ़ और विपुल ( तार) दुद्धिको प्राप्त नारायणने स्थिरताको नयी ज्योतिले दैदीप्यमान मूल तत्त्व (सारतम ) में श्रद्धाको बढ़ानेवाले लोगोंमें, पवित्र भावोंका बड़ी तेजीसे संचार कर दिया था ॥१४३॥
जिसके राज्यमें प्रजाको क्षय, लोभ, अप्रीतिके कारणोंका सामना नहीं करना पड़ता था, जिसने केवल शत्रुनोंका दमन किया था और दूसरोंकी पनियां हो जिसके राज्यमें परकीया दूसरोंकी पत्नी थी अर्थात् कोई परखीपर दृष्टि नहीं डालता था ॥१४४॥
१. भत्व तरुण प.द० ज० । २. चैतालीयं छन्दः।