________________
२८०
द्विसन्धानमहाकाव्यम् सस्ता इति---बेला जलकल्लोला: अमबन् अजनिषत, कथंभूताः ? क्षणदृष्टनष्टाः क्षणं पूर्व दृष्टाः पश्चान्नटा: क्षणटनाः, काभिः ? ववभिः मुग्धाङ्गनाभिः, किं कुर्वाणा: वेला: ? वेपमानाः कम्पमानाः, किं विशिटा इवोत्प्रेक्षिताः ? आत्मदोषचकिता इव स्वकीयापराधभीता इव, कथस् ? इति कृत्वा दोषं दर्शयति, स्रताः न्युनाः सजो माला: तथा विलेपनानि अङ्गरागाः सिथिलितानि तथा विपक्षनखक्षतानि सपत्नीकररुहत्रणानि संदर्शितानि ।।४८।
तथा वेषं तेषां कुसुमरचितं कुक्कुचितं
दधानोदाराणां दिशि दिशि जनानां प्रियतमम् । चिरं चक्रे शङ्कामिव हृदि परासंगजननी
नदीवाहो वेला त्वरितगतिरीशस्य सरिताम् ॥४६॥ ___ तयनि-द्विः–तथा क्षणनष्टभवनप्रकारेण अहो चक्रे कृतवती, का ? सरितामीशस्य समुद्रस्य वेला, काम् ! शङ्काम्, कथं भूतामिव ? परासंगजननी मिव परेषामासंगः परासंगः तं जनयतीति ताम् अन्येषामातंगस्य जनयित्रीमिव, क्व ? तेषां जनानां हृदि हृदये, कथम् ? चिरं बहुकालम्, कथंभूतानाम् ? उदाराणाम् कथंभूता वेला? त्वरितगति: स्वरिता गतिर्यस्याः सा शीघ्रतरप्रवर्तना, क्व ? दिशि विशि, केद ? नदीव कि कुर्बाणा ? वेषम् अलंकारं दधाना, कथंभूतम् ? कुसुमरचितं पुनः कुकुमचितं पुनः प्रियतमं मनोहारि।
भारतीयः पक्षः-नदीवाहो नदीपूरः चक्रे, काम् ? शताम्, कथंभूतामिव ? परासंगजननीमिद, क्व ? दाराणां कलत्राणां हृदि, तथा जनानां लोकानाम्, कथम् ? चिरम्, कथंभूतो नदीवाहः ? त्वरितगतिः त्वरिता गतिर्यस्य सः, क्व! दिशिशि , के त्वरित मतिःसरिताम् ईशस्य वारिनिधे: देलेव, कथंभूत:? कुसुम रचितं पुनः कुङ्कुमचितं प्रियतम वेषम् आकारं दधानो घरन् अत्रोभयथा वेलानदीजलयो रमणरमणीक्रीडाधिक्यात् कुसुमकुङ्कुममयत्वं प्रदशितमिति' ।। ४९॥
पुष्पं प्रवालमखिलं स्ववनस्य कोपात्सर्वस्वमाहतमुपाहरतीव भूयः । भूपा विहृत्य पयसि द्रुतमित्यपेयुः के वान्यदुत्सुकधियोऽन्यधनं जयन्तः ॥५०॥ इति श्रीधनंजयकविविरचित राघवपापडीयापरनाम्नि द्विसन्धानमहाकाव्यं कुसुमावचय
जलक्रीडावर्णनं नाम पम्पदशः सर्गः ।
टूटी मालाओं, पुंछ हुए अंगराग तथा साफ-साफ दिखले नखक्षत प्रादि अपने अनाचारों के कारण भीत और कांपती हुई क्षण-भर सामने पाकर छिपी दोषी नायिकाके समान समुद्र अथवा गंगाको वेला (किनारा) को कुलीन बहनों ने देखा था [क्यों कि जलक्रीड़ामें टूटो मालाएँ, विलेपन झरे पंखे मादि किनारे जा लगे थे और किनारेपर पक्षी आदिके पंजोंके ठप्पे बन रहे थे। और संध्या हो जानेके कारण क्षण-भर ही यह सब देखा जा सका था ॥४॥
सब दिशाओंमें फूलोंसे सजे और ढके, कुंकुमके विलेपनसे सने और लोगोंको परम प्रिय किनारेको चंचल शोभाने समुद्र या नदीके अनन्त पाट (प्रासंग)की मनमें शंका कर दी थी [ पुष्पोंसे सजे, 'अंगराग युक्त और प्रत्यन्त मनोहारी वेशभूषाको देखकर, बड़ों-बड़ोंको भी परके प्रति अभिसारको शंका हो ही जाती है ] ॥४९॥
१. शिखरिणीवृत्तम् ।