________________
पञ्चदशः सर्गः
अथ वनपनुकूलमङ्गनाभिः समलयजाङ्कपयोधरोचिताभिः ।
सह गतिमृजुमन्थरां गताभिः सरति यदूर्जितनायका विजहुः ॥१॥ अथेति-अथ शब्द आनन्तर्ये वर्त्तते, विजह्नः विहृतवन्तः, के ? कपयो वानराः सुग्रीवादयः, किम् ? तद्वनम् , कथम् ! अनुकलं तट तटं प्रति, कथम् ? सह, काभिः? अङ्गनाभिः कामिनीभिः, कथम्भूताभिः १ अधरोचिताभिः अधरौ ओठी उचिती सामुद्रिकलक्षणसम्पन्नौ सुपवाचिभ्यसदृशौ स्थूलोमतदूषणोझिताविति भावः, अधराबुचितौ यासां ताभिः, पुनः कथम्भूताभिः ? अजुमन्थराम् अवक्रां मन्दा च गतिं गताभिः प्राप्ताभिः, कथम्भूतां गतिम् ? समलयज समश्वासौ लयः समलयस्तस्माजात 'लयः साम्यमुदाहृतमिति वचनात् , कथम्भूताः कपयः ? ऊर्जितानां प्रौढिमत्प्रतापवता नायकाः स्वामिनः, यत् अस्ति बनम् , कथम्भूतम् ? सरति सक्रीड. मिति ।
___ भारतीयः-यदुर्जितनायकाः यदधश्च ते ऊर्जितनायकाश्च यादयाः प्रतापिनो नरेन्द्राश्च विजल्लुः । किम् ? वनम् , कथम् ? अनुकूल पुनः सरति सक्रीडम् , कथम् ? अङ्गनाभिः सह, कथम्भूताभिः ? समलयजाङ्कपयोधरोचिताभिः मलयजाङ्केन चन्दनस्थासकेन सह वर्तते इति समलबजाको एथंभूतौ पयोधरौ उनितो सामुद्रिकलक्षणविषयो वनपीनोन्नती नातिस्थूलो नातिहस्वी नातिदीधी यासां ताभिः ॥१॥
दिशि विदिशि परस्परं न दृष्टं विरचयता कुसुमोच्चयं जनेन ।
न च ददृशुररण्यजास्तदन्तं बहु किमु चेति निरूपितं न कश्चित् ॥२॥
दिशीति-न दृष्टं नावलोकितम् , कथम् ? परस्परम् अन्योन्यम् , फैन ? जनेन लोकेन, किं कुर्वता सता ? कुसुमोधयं फुल्लत्फुल्लत्रोटनं घिरचयता, क्व ? दिशि विदिशि, तथा च न ददृशुर्न दृष्टवन्तः, के ? अरण्यजाः पुलिन्दादयो जीवाः, किम् ? तदन्तं बनमध्यं वनपर्यन्तं वा र शब्दः सम्बोधनार्थवाचकः, उ अहो कि बहु, चकारादबहिति लब्धम् , किमिव बहिति ? न कैश्चिच निरूपित्तम् , किम् ? अनम् , कथम् ? इति ईदृशम् इतीति कृत्वेत्यर्थः ॥ २ ॥
पृथु विहितवता यनं विधात्रा चिरमुचितानुपभोग्यमेकयोग्यम् ।। ललितजनचितं कृतं कथञ्चित्परिहरतेव तदापदे श्रमं तम् ॥३॥
सम तथा लयसे समन्वित सीधी और मन्द्र चाल चलती तथा शुभ लक्षण मय ओष्ठधारिणरि अंगनाओंको साथ लेकर, प्रतापी राजाभोंको नेता तथा रति भावसे प्रेरित सुग्रीव आदि वानरवंशी राजा समुद्र के किनारे किनारे बनमें चंक्रमण करने लगे थे [ मलयज चन्दनके लेप युक्त स्तनधारिणी सरल और धीमी धीमी चलती सुपात्र नायिकाओंके साथ निकले यादववंशी प्रतापी राजा लोग प्रेमपूर्वक गंगा किनारेके वनमें बिहार कर रहे थे] ॥१॥
दिशाओं और विदिशाओं में पुप्पोंका चयन करते हुए लोगोंने न तो आपसमें एक दूसरेको देखा था। और न वनवासी भील आदिने ही इन्हें देखा था। बहुत क्या कहें ? आश्चर्य तो यही है कि किन्हीने भी उस वनका ओर-छोर नहीं जान पाया था ॥२॥
१. सर्गेऽस्मिन् पुष्पितायावृत्तम् । तल्लक्षण "अयुजि नगरेफत्तो यकारो युजि च नजी जरगाश्च पुषिताम्रा" [वृ. र. ४११०]
३४