________________
२३४
द्विसन्धानमहाकाव्यम् उद्यदिति-अवबभासे प्रतिभासते स्म, का ? फन्दुकभूमिः कन्दुकैः क्रीडा क्रियते यस्यां भूमौ सा कन्दुकभूमिः, केषाम् ? राजन्यानां राजपुत्राणाम् ,कस्य ? तस्य हनूमतः श्रीशैलनाम्नो दूतस्य च, उद्यकक्षा गोपुरप्राकारयोरन्तर्भूमिः कक्षा उद्यन्ती कक्षा यस्याः सा पुनः गोपुरशालध्वजमाला गोपुरशालेषु ध्वजमाला यस्यां सा, पुनः भत्तालम्बालम्बनबाला मत्तालम्बानाम् आलम्बनं यस्यां ताः मत्तालम्बालम्पनाः मत्तालम्बालभ्यना बाला यस्यां सा तथोक्ता, अवष्टम्भनकाष्ठावष्टम्ममुग्धाङ्गनेत्यर्थः, पुनः समृदङ्गा समदला पुनः आधावत्तुङ्गतुरङ्गा आधावन्तः तुङ्गाः तुरङ्गा यस्या सा, केव ? नगरीव, विशेषणानि पूर्ववत् ॥८॥
यत्रोद्धेगे मूर्छति शोकेनयमस्त्री तस्थौ दुःस्थं चाशु भवानीशसमेत्या । त्यक्त्वालङ्का राज्यविभोगं धनदोऽपि द्वेषी कारागारमसौ तन्निचचाये ॥९॥
योति-निचचाथे ददर्श, कः ? असौ हनुमान , किम् ? तत् लोकप्रसिद्ध कारागारं बन्दीगृहम् , यत्र कारागारे तस्थौ स्थितवती यमस्त्री छाया नामधेया कृतान्तभार्या, कथम् ? दुस्थ दास्थ्यं यथा, क्व ? उद्वेगे सति, कीग्विधे ? मूर्छति वृद्धिं याति, केन ? शोकेन शुचा, चकारः समुच्चयार्थः, तथा तस्थौ, का ? भवानी गौरी दुःस्थमिति क्रियाविशेषणम् , कथम्भूता ? ईशसमेत्या ईशानयुक्ता ; क सति ? उद्वेगे, किं कुर्वति ? मर्छति, केन ? शोकेन, कथम् ? आशु शीघ्रम् , तथा तस्थौ, कः ? असौ धनदोऽपि द्वेषी, कथम् ? दुःस्थम् , किं कृत्वा १ पूर्व त्यक्तत्वा अपाकृत्य, कम् ? अलकायनिभोगम अलंकालगरी नाभा जगत्रिभोग ग्ल्यानुभवनम् । विन्दुच्युतक, “यमकश्लेपचित्रेषु बवयोईलयोन भित् । नानुस्वारविसर्गौ च चित्रभंगाय सम्मती" इति वचनात् ।
___ भारतीये-असौ दूतः तत् कारागारं निच्चाये ददर्श, यत्र कारागारे तस्यौ, कः ? द्वेषी शत्रुः, कथं यथा भवति? अनयम् अन्याय्यप्रवेशम् , कथं यथा भवति? दुःस्थं क्षुत्पिपासादिजनितबाधायां सत्यामन्नादी नामप्राप्ती सदभिलाषमित्यर्थः, क्व सति ? शोके कि कुवंति ? मूळति विदधति, तथा शोकादुद्वेगे च सति, कथम्भूतः सः ? अशुभत्रान् , कथम्भूतोऽपि सन् ? धनदोऽपि धनं ददातीति धनदः, अपिशव्दात् बन्धनात्पूर्व स्थूलदातेत्यर्थः, किं कृत्वा ? पूर्व स्यत्वा विहाय, किम् ? अलकाराज्यविभोगम् अलङ्काराः कङ्कणकुण्डलादिविभूषणानि, आज्यवयः षोडशवार्षिकाः कमनीयकामिन्यः, भोगः 'कुङ्कमकर्पूरचन्दनादिलक्षणः, अलङ्काराश्च आज्यवयश्च भोगश्च लङ्काराज्यविभोगम् , कया ? ईशसमेत्या स्वामिसंगल्या जरासन्धादभिभवेनेत्यर्थः, पुनः कथम्भूतः १ अस्त्री शस्त्रवान् , उक्तं च "सम्भोगलालसा नित्यं धनपीनपयोधरा । पोडशाब्दा तु या नारी थुप्रैराज्यविरुच्यते" ॥९॥
दूतको राजपुत्रोंके गेंद खेलनेकी भूमि नगरीके समान ही सुन्दर लगी थी। क्योंकि प्रवेश द्वार और सीमा (परकोटा) पर ध्यजा तथा मालाएं लगी थीं, गोपुरके पासको भूमि (कक्षा) विस्तृत थी, छज्जेके सहारेकी लकड़ियोंपर भी स्त्रियाँ खुदी थीं, मृदंग बज रहे थे तथा घोड़े लगातार इधर-उधर दौड़ रहे थे ॥८॥
इस हनुमानने रावणके कारागारको देखा था जिसमें विपत्तिमें पड़े (अशुभवान् ) पतिके पास आकर यमकी पत्नी भाधोद्धगमें शोकके कारण मूर्छित हो जाती थी। तथा रावणका शत्रु कुबेर भी 'अलकापुरीके राज्यके भोगोंको छोड़कर अत्यन्त फटकारक परि. स्थितियों में पड़ा था [श्रीशैलने जरासंधका वह कारागार देखा था जिसमें जरासंधके सामने पड़नेका साहस (भवानीके पति शिवजीको पूजा) करनेके कारण हो शत्रुलोग शीघ्र ही आभूषण, षोडशी युवतियाँ तथा समस्त भोगोंसे वंचित होकर बड़े कटते रहते थे। पहिले पर्याप्त सम्पत्ति भेट करनेपर भी अन्याय पूर्वक पकड़े गये ये शस्त्रसन्नद्ध राजा लोग अनुताप और शोकसे मूर्छित हो जाते थे] ॥९॥
१. कपूरकाशमीरचन्दनादिस्वभाव-प०, द० ।