________________
अथ पाशकाः ॥ नन्दं नरेन्द्र-मुत्पाट्य, पाटलीपुत्रपत्तने । चाणक्येन कृते चन्द्रगुप्ते भूभुजि सद्गुणे ॥ १ ॥ धनं विना न राज्यस्य वृद्धि रित्यवसाय सः । चाणक्यो विदधे योगपाशकान् कनकेच्छया || २ || देवताधिष्ठितान् केचित्, तानाहुः । सूरयः परे । द्यूते पुनः पतंत्येते चाणक्यमनसः प्रियाः ॥ १ ॥ चतुरः शिक्षित- स्तेन, द्यूतकारोऽथ तैर्नरः । क्रीडितुं सोऽपि [दीनार स्थालं भृत्वाऽवदद् भृशम् ॥ ४ ॥ यो मां जयति स स्थालं. दीनारपरिपूरितम् । गृह्णातु मम दद्यात् तु, जये दीनारमेकक्रम् ॥ ५ ॥ इति श्रुतेऽध भूयांसो, लोभात् क्रीडितुमुद्यताः । केवलं पाशकास्ते हि न परावृत्तिवृत्तयः ॥ ६ ॥ अपि प्रतीच्यामुदिया -दादित्यो द्योतभारभाव । न तु लब्धवराः पाशाः पेतुः काऽप्यन्यथा भुवि ॥ ७ ॥ कदाचिद् दैवत- स्तेऽपि स्युः प्रतीयप्रपातुकाः । नरत्वा न नरो भ्रष्टो नरत्वं पुनराप्नुयात् ॥ ८ ॥
अथ धान्यानि ॥ भरतक्षेत्र धान्यानि सर्वाणि कापि यलतः । मिश्रितानि ततस्तत्र क्षिसः प्रस्थोऽथ सार्षपः ॥ २ ॥ ततोऽतिवृद्धा काचित् स्त्री, दुर्बला शूर्पकोणके । गृहीत्या तानि धान्यानि, सर्पपप्रस्थमादरात् ॥ २ ॥ कदाचित् पिण्डयेद् दैवयोगाद् देवानुभावतः । तथापि न नरो भ्रष्टां नरतां लभते पुनः ॥ ३ ॥
अथ द्यूतम् ॥ कस्यापि भूमिपालस्याऽऽसीत् सभास्थानहेतवे । अष्टोत्तरशत-स्तम्भसंनिविष्टा मनोहरा ॥ १ ॥ अथ तस्य सुतः कश्चिद्, राज्यकांक्षी व्यचिन्तयत् । हत्वातिवृद्धं पितर-माददे राज्यमात्मना ॥ २ ॥ कुतोऽपि मन्त्रिणा ज्ञात्वा [ वृत्तान्तोऽयं निवेदितः । राज्ञे स्युर्मत्रिणश्चारचक्षुः दातनिरीक्षकाः ॥ ३ ॥ राज्ञाऽप्याहूय स स्रुत, एक्मूचे सुवुद्धिना । योऽस्माकं संतती कोऽपि कदाचित् स्या- नृपात्मजः ॥ ४ ॥ राज्यार्थी तेन तद्राज्ञा धूतं कृत्वा ततः समाम् ।
47