________________
यत्र काले किम् ? इत्याह
नो पिच्छामो सव्व णो सयं न मणधज्जवजिणाई |
न च चुह-सुबहरेदि ॥ १० ॥
व्याख्या- 'नो' नैव 'प्रेक्षामहे' अवलोक्यामः, 'सर्वज्ञान' सर्वविदः तीर्थकरादीन् स्वयं साक्षात् । तथा अर्द्धतृतीयद्वीपसमुद्रवर्तिसंज्ञिपञ्चेन्द्रियाणां 'मनांसि' वस्तुचिन्तनव्यापाराणि 'पर्यवति धातूनामनेकार्यत्वात् परि समन्तात् अवगच्छतीत्यचि प्रत्यये मनः पर्य्यत्रं तत्सकाशादभिन्नादात्मनः आत्मापि मनःपथ्ययं तच्चासी रागादिजेतृत्वाद् 'जिनो' मनः पर्य्यवजिनः, स आदिर्येषामवधिजिनादीनां ते तथा। तानपि न प्रेक्षामहे इति योगः, इदं च पदं सर्वत्र योज्यम् । एते त्रयोऽपि प्रत्यक्षज्ञानिनः अत एतद्योगे स्यादपि कदाचित् कदाग्रहनिवृत्तिरिति भावः । ' न च नैव चतुर्दशदशपूर्वरयमुखान् तदादीन्, प्रमुखशब्दाद् नवपूर्वधरादिग्रहः कीदृशांस्तानित्याह- 'विश्रुता विख्यातास्ते च ते 'श्रुतधराश्च' ते तथा तान्, विशिष्टश्रु|तज्ञानवत इत्यर्थः । अपिशब्दः समुच्चये । तेऽपि श्रुतज्ञानवलीयस्त्वेन कदाचित् कुग्रहानुच्छिन्द्युः । इति गाधार्थः ॥ १० ॥ तथा च सर्वथा कुग्रहोच्छेदकपुरुषाभावात् का गतिरस्माकम् ? इत्यपि अनुचिन्तनीयमित्याहएवं पि अम्ह सरणं, ताणं चक्खू गई पईवो य । भयवंसिद्धंतु च्चिय, अविरुद्धो इहदिट्ठेहिं ॥ ११ ॥ व्याख्या- यद्यपि सर्वज्ञादिभिः सह दर्शनं नास्ति, 'एवमपि तथापि अस्माकं भगवत्सिद्धान्त एव शरणमिति योगः ।।
33