SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ यत्र काले किम् ? इत्याह नो पिच्छामो सव्व णो सयं न मणधज्जवजिणाई | न च चुह-सुबहरेदि ॥ १० ॥ व्याख्या- 'नो' नैव 'प्रेक्षामहे' अवलोक्यामः, 'सर्वज्ञान' सर्वविदः तीर्थकरादीन् स्वयं साक्षात् । तथा अर्द्धतृतीयद्वीपसमुद्रवर्तिसंज्ञिपञ्चेन्द्रियाणां 'मनांसि' वस्तुचिन्तनव्यापाराणि 'पर्यवति धातूनामनेकार्यत्वात् परि समन्तात् अवगच्छतीत्यचि प्रत्यये मनः पर्य्यत्रं तत्सकाशादभिन्नादात्मनः आत्मापि मनःपथ्ययं तच्चासी रागादिजेतृत्वाद् 'जिनो' मनः पर्य्यवजिनः, स आदिर्येषामवधिजिनादीनां ते तथा। तानपि न प्रेक्षामहे इति योगः, इदं च पदं सर्वत्र योज्यम् । एते त्रयोऽपि प्रत्यक्षज्ञानिनः अत एतद्योगे स्यादपि कदाचित् कदाग्रहनिवृत्तिरिति भावः । ' न च नैव चतुर्दशदशपूर्वरयमुखान् तदादीन्, प्रमुखशब्दाद् नवपूर्वधरादिग्रहः कीदृशांस्तानित्याह- 'विश्रुता विख्यातास्ते च ते 'श्रुतधराश्च' ते तथा तान्, विशिष्टश्रु|तज्ञानवत इत्यर्थः । अपिशब्दः समुच्चये । तेऽपि श्रुतज्ञानवलीयस्त्वेन कदाचित् कुग्रहानुच्छिन्द्युः । इति गाधार्थः ॥ १० ॥ तथा च सर्वथा कुग्रहोच्छेदकपुरुषाभावात् का गतिरस्माकम् ? इत्यपि अनुचिन्तनीयमित्याहएवं पि अम्ह सरणं, ताणं चक्खू गई पईवो य । भयवंसिद्धंतु च्चिय, अविरुद्धो इहदिट्ठेहिं ॥ ११ ॥ व्याख्या- यद्यपि सर्वज्ञादिभिः सह दर्शनं नास्ति, 'एवमपि तथापि अस्माकं भगवत्सिद्धान्त एव शरणमिति योगः ।। 33
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy