________________
द्वादशकुलकम् ।
॥ १०१ ॥
यतित्वलक्षणो यैस्ते तथा, अपिरत्रापि विस्मये एव, नहि एवंविधानामत्यन्तसंक्लेशः संभाव्यत इति, क एवंविधाः ? इत्याह'धर्मार्थिनोऽपि गृहवासपरित्यागेन साधुधर्मानुपालनाकांक्षिणोऽपि, आस्तां तदितरे, परमीदृशा अप्यतिशयेन वाढं 'संङ्किष्टाः ' परगुण व्याघाताद्यनुचिन्तका, अत्र जगति प्रवचने वा दृश्यन्तेऽवलोक्यन्ते, प्रायो बाहुल्येन न तु सर्वेऽपि तथा सति दुःप्र सभान्तचरणवचनव्याघातापत्तेः इति गाथाद्वयार्थः ॥ २ ॥
तमाह
ते किंचि कहिंचि कसायविसलवं धरिय नियमणे गूढं । दरिसंति तत्रियारे अप्परिणयसमयअमयरसा ३
व्याख्या- 'ते' पूर्वोपदर्शिता अतिसंक्किष्टचित्ताः साधवः, कषायविषलयविकारान् (ल) दर्शयन्तीति सम्बन्धः, किं कृत्वा १ घृत्वाऽवस्थाप्य, किमित्याह- 'कषायाः ' क्रोधादयः त एव मारणनिवन्धतत्वाद् 'विष' गरलं, तस्य 'लव' लेशं, केत्याह- 'निजमनसि' आत्मीयचित्ते, कथं धृत्वा ? 'गूढ' मुग्धजनालक्ष्यत्वाद् गुप्तं, किंरूपं तदित्याह, 'किंचिदिति' नपुंसकत्वं प्राकृतत्वात् तेन कमपि क्रोधादिष्वन्यतमं, तथा कथमपि केनापि प्रकारेण, कचित् सुविहितानामपि पूजा दर्शनख्यातिश्रवणादिनेत्यर्थः । चित्तघृतकपायविषाः किं कुर्वन्तीत्याह- ' दर्शयन्ति' बाहिरपि प्रकाशयन्ति, किमि (कानि) त्याह- (तस्य) कषायविषलवस्य 'विकाराः' तदुत्थदुष्टवचनपरिभव कलहादयः तान् कीदृशाः सन्तः ? इत्याह- 'समयः ' कषायकटुविपाकदर्शकः सिद्धान्तः, स एवाज रामरत्वहेतुत्वात् अमृतरसः पीयूषनिर्यासस्ततोऽपरिणतोऽङ्गाङ्गिभावेनाजीर्णः समयामृतरसो येषां ते तथा,
202
द्वाद
कुलक
१२