SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 13 एवं तावत् शिथिलाचारचरित-मुत्कीर्तितम् , अथ सुविहितात्ममानिनां मध्यस्थात्मज्ञानिनां च निश्चयनयेनासुविहितानामाचरितं दर्शयितुमाह नियगुरुकमरागेण नदक्खिन्नओ वा, समइअभिनिवेसणंधमंधीइ केई । सुविहियबहुमाणी होउ मज्झत्थनाणी, इय कुसुयकुबुद्ध बिति आणाविरुद्धं ॥ २० ॥ व्याख्या-केचिद् मध्यस्थात्मज्ञानिनः सुविहितबहुमानिनश्चाज्ञाविरुद्धं ब्रुवत इति योगः, कुतः पुन-मध्यस्थात्मज्ञानिन । इत्यत्र हेतुचतुष्टयमाह-निजगुरुकमरागेण' स्वकीयपूर्वजसमाचारपक्षपातेन, ते हि मध्यस्थमानिन आसन्निति ॥१॥ अन्येषामपरेषां श्राद्धादीनां 'दाक्षिण्यम्' उपरोधः ततो घेति, वाशब्दो विकल्पार्थः, तेषां हि मध्यस्थभाव एवं रोचते ॥२॥ स्वमतेः आत्मबुद्धेरमिनिवेश आग्रहो यदुतमाध्यस्थ्यमेव श्रेय इति चेतोऽवष्टम्भः॥३॥'अन्धमंघीइत्ति प्राकृतत्वाद् अन्धान्धीन्यायो 1४ माघो यथैकस्यान्धस्यापरोऽधो लग्नस्तस्यापि अन्य इत्येवमाद्यस्यैव सर्वथा मार्गादर्शित्वादन्येषामपि मार्गास्पर्शित्वमेव, एव माद्यस्यैव गुरोर्माध्यस्थ्यावलम्बनस्यासमीचीनत्वाद् शेषाणामपि तत् तथैव, ॥ ४ ॥ एवं हेतुचतुष्टयात् केचिन्मुग्धबुद्धयो मध्यस्थज्ञानिनः संवृत्ताः, भवन्तु केचित् साधवः सदाचारा अपरे तु अतादृशास्तथापि अस्माकं सर्वेषु समताभावो माध्यस्यं, तथा च मध्यस्वं मध्यस्थताविषयं ज्ञानं विद्यते येषां ते मध्यस्थज्ञानिना, आत्मानं मध्यस्थ मन्यमाना इत्यर्थः कीदृशाः सन्तः। इत्याह-'सुविहितं' सुसंयतमात्मानं बहु मन्यन्त इति मुविहितबहुमानिनः, मध्यस्थज्ञानिनामयमभिप्रायो-यदुत गुणागुणवि शकु०१५.5 169
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy