________________
द्वादशकुलकम् ।
॥ ८४ ॥
व्याख्या-‘सततं' सर्वदा 'इह' जगति, जीवानां किमित्याह- 'शोकः' पुत्रादिवियोगजनितो दुःखविशेषो, 'दार्गत्यं दारिद्र्यं 'व्याधयो' ज्वरादिरोगाः, 'जरा' वयोहानिः, दीर्घत्वहस्वत्वे प्राकृतत्वात्, 'मरणं' पञ्चत्वप्राप्तिः, 'भयम्' अनेकविधस्त्रासः, | आदिशब्दात् क्रोधादिग्रहः, एते किमित्याह- 'वेरिणो' अन्तरङ्गसम्यक्त्वादिप्राणापहारित्वात् प्रौढशत्रवो, 'दुर्निवारा' उपक्रमशतैरपि निषेदुमशक्याः अवश्यमपायहेतव इति भावः तथा चतैरुपहतेषु सर्वजीवेषु यदि कथंचित् 'क्षयकरं ध्वंसविधानदक्ष-मेषां शोकादीनामन्तरङ्गशत्रूणां कश्चिद् द्रव्यत्वपरिपाकवानपि अत्यन्तमेतद् भीरु-रन्तरङ्गसम्यक्त्वादिप्राणान् रिरक्षिषुः, 'कांक्षेद्' अभिलषेत् तथाविधमहावलिष्ठराजानमिव 'तत्त्वं' सद्गुरूपदिष्टं विधिधर्ममार्गलक्षणं रहस्यम् अवश्यमेतस्मात् ममान्तरङ्गप्राणरक्षा भविष्यतीति अभिप्रायवान्, 'तथापि एवमपि कस्मिंश्चिद् भच्यविशेषे तत्त्वाकांक्षिण्यपि किमित्याह -'कुपथदर्शिनो' दिवा रात्रौ वा शुचिभूतेनान्यथा वा देवस्नान पूजादिकं विधेयं, पात्रापात्राविभागेन शुद्धाशुद्धभैक्षाविशेषेण यतिभ्यो दानं विधेयं, सदाचारे इतरस्मिन् वा लिङ्गमात्रधारिणि वन्दनादिकं मोक्षवीजं, सुविहितान्तिके सम्यक्त्वाधारोंपणं न कार्य, गद्दिकायासनेऽपि चैत्ये न दोष इत्यादि कुत्सितमार्गप्रकाशकाः तस्य संघटिताः, के इत्याह, 'कुलिङ्गिन:, ' सदाचारविकल कुत्सित लिङ्गमात्रधारिणः तैश्च एवंविधो मार्गों दर्शितः, तत्तः कथं तस्यान्तरङ्गवैरिक्षयो भवतु इति । एवमसमंजसदर्शने प्रकरणकारः सखेदमाह-'हीति' खेदेऽव्ययं, महदिदं खेदस्थानं यद् भव्यस्य कस्यापि अन्तरङ्गवैरिक्षयार्थिनस्तत्पुष्टिकार मार्गदर्शनं विषविकारनिवृत्त्यर्थिनः पीयूषपानमभिलषतः कालकूटपानमिवेद - मिति वृत्तार्थः ॥ १९ ॥
168
नवमं
कुलकम् । ♦