________________
पावगतिरूपाद् हेतुत्रयात् 'सूत्रोक्तं' श्रुतोपदिष्टं धर्मकृत्यमिति गम्यते, 'कुरुत' विधत्त भोः श्राद्धाः ! इति वृत्तार्थः ॥ ८॥
तत्रापि प्रथमं तावत् समस्तकृत्यनिदानत्वात् साधुसेवायाः तामेवाहपडिहणियकसाए सिद्धिबद्धाणुराए विहिअहिगयसुत्ते तस्स आणाइ जुत्ते ।
फुडपयडियतते साहुणो निम्ममत्ते सुहगुरुपरतंते पजुवासेह दंते ॥९॥ व्याख्या-साधून पर्युपासतेति योगः, कीदृशानित्याह-प्रतिहतकपायान्' निरुद्धक्रोधादिप्रसरान् , अनेन च क्षान्त्यादिगुणचतुष्टयं साक्षादुक्तं, शेष गुणषट्कं तूपलक्षणत्वेन बोद्धव्यमिति दशविधसाधुधर्मयुक्तत्वमुक्तं तावत् तेषां ज्ञेयं, है तथा सिद्धिबद्धानुरागात्' मुक्तिविषयगाढप्रतिबन्धात् , अनेन संविग्नत्वमुक्तं, तथा 'विधिना' वन्दनकदानादिसद्गुरुप्रतिप
त्याधिगतसूत्रानधीतश्रुतविशेषान् , अनेन सर्वत्र तेषां विधियरता सूच्यते, तथा तस्य श्रुतस्याज्ञा सदुपदेशस्तया 'युक्तान'
समन्वितान् , अनेन गीतार्थत्वमुक्तं, तथा 'स्फुटप्रकटिततत्त्वान' व्यक्तप्रकाशितजीवादिपदार्थान् , अनेन परोपकारत्वमु४ पदर्शितं, कानेवंविधानित्याह-'साधून' सुविहितवृत्तिन इति विशेष्यपदं, तथा निर्ममत्वान्' शरीरोपध्यादावपि प्रतिवन्धशारहितान् , तथा 'शुभगुरुपरतन्त्रान् अनन्यसाधारण ज्ञानादित्रयपवित्रप्रकृष्टजातिकुलादिषत्रिंशद्गुणोपेत आचार्यः शुभ||गुरुः, तत्परतन्त्रान् तदाज्ञावर्तिनः, एतेन गुरुकुलवासित्वमेषां व्यंजितं, तेन च सर्वथा स्वातन्यनिषेधः, ततश्च शेपपि-18 भण्डविशुद्धयादिगुणयुक्तानामपि गुरुपारतन्यविकलानां परमार्थतोऽयतित्वात् पर्युपासनयोग्यतावैकल्यमापादित, तान् पयु
155